पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

114 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम: रिकप्रपश्चे कनिष्ठस्य व्यावहारिकत्वात् व्यावहारिकनिष्ठस्य प्रातीतिकत्वादिति चेन्न; व्यावहारिकनिष्ठमिथ्यात्वस्यैव स्वाश्रयसमसत्ताकत्वेनोक्तत्वात्, व्यावहा- स्वान्यूनसत्ताकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वस्य अनुमितत्वेन तत्प्रातीतिकत्वस्य तद्धर्मिग्राहकमानेनैव निराकृतत्वात् । किंच मिथ्यात्वस्य सत्यत्वमिथ्यात्वविकल्पेन दूषणं नित्यसमा जातिः । धर्मस्य' तदतद्रूपविकल्पानुपपत्तितः । धर्मिणस्तद्विशिष्टत्वभक्को नित्यसमो भवेत् ॥ इति तल्लक्षणात् । न च मिथ्यात्वस्य सत्यत्वे धर्मिणि न तद्वैशिष्ट्य- भङ्गः किन्त्वद्वैतहानिरिति वाच्यम्; विकल्पितकोठ्योरेकस्या अद्वैत- हानिप्रयोजकत्वेऽपि अन्यस्याः प्रपञ्च सत्यत्वतात्त्विकतापत्तिद्वारा प्रपञ्चे घमिाण मिथ्यात्ववैशिष्टयभङ्गप्रयोजकत्वात् । अन्यथा मिथ्यात्वकोटि - मात्रस्यास्माभिराश्रयणे सत्यत्वकोटिप्रयुक्तस्याद्वैतहान 'दोषस्थानवका - शात् । किंच मिथ्यात्वस्यापि मिथ्यात्वधर्मित्वेन तस्य सत्यत्वे मिथ्यात्ववैशिष्ट्यभङ्गेन सत्यत्वकोटेरपि धर्मिणि तद्वैशिष्टयभङ्गप्रयोज- कत्वमावश्यकम् | न च स्वव्याघातकत्वाद्यभावान्नेयं जातिरिति वाच्यम्; त्वदीयस्य सर्वदेश कालनिष्ठात्यन्ताभावप्रतियोगित्वरूपा सत्त्वस्यासत्त्वे तद्विरुद्धस्य ' असदेवेदमग्र आसत्'ि इति वाक्यादसति प्रतिपन्नतया स्वदभ्युगतस्य सत्त्वस्यासति तात्त्विकत्वापत्तिः सत्त्वे तस्य सतोऽसति सम्बन्धानुपपत्तिः । उक्तं हि बौद्धाधिकारे — — सदसतोः सम्बन्धा- नुपपत्तेः' इति । तथा 'तुच्छस्य विशेषाभावात्' इति । तथा 'न च तस्य भाविको देशकालसम्बन्धः तुच्छत्वात्' इति । भाविकस्तात्त्विकः । न च प्रागभावप्रतियोगित्वादेरिव सतोऽपि तस्य सत्सम्बन्ध' इति वाच्यम् ; प्रागभावादिप्रतियोगिनः उक्तासत्त्वाभावात् । असत् शशविषाणमिति प्रततेः सत्त्वाश्रयासत्त्वविषयकत्वे 'वस्तुशून्यो 3 हानि. 4 असतोपि. 5 असत्सम्बन्धः. ] धर्मिणः. 2 भङ्गात्.