पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वमिथ्यात्वनिरूपणम् 113 एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकम्, यथा शुक्तिरुप्प शुक्तिभिन्नत्वयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकब्रह्मज्ञान- बाध्यत्वम् । अतः समसत्ताकत्वान्मिथ्यात्वबाधकेन प्रप स्यपि बाधाभाद्वैतक्षतिरिति कृतमधिकेन ॥ इति मिथ्यात्वस्य मिथ्यात्वनिरुक्तिः, वच्छेदकरूपावच्छिन्नयोरुभयावृत्तिरूपेणैकामिथ्यात्वे अपरस्याधिकसत्ता' इति । गजे प्रसक्तयोः गोत्वाश्वत्वयोः नात्र गोत्वं नात्राश्वत्वमित्यु- भयावृत्तिरूपेण निषेधेऽपि समसत्ताकत्यादित्यत आह - एकसाधकेति । तथाचोक्तनियमाभावेऽपि यद्यद्वाषकेत्यायुक्तनियमोऽत्स्येव । एकसा नापरबाघ उभयावृत्तिरूपेणैवेत्याभिप्रायेणोभयवृत्ति न भवेदिति पूर्वमु तमिति भावः । प्रपञ्चसत्यत्वमिथ्यात्वयोः समसत्ताकत्वमुक्तं प्रमा- णेन साधयति – एकबाधकेति । यद्यद्वाधकबाध्यं तत्तसमसत्ताकमिति व्याप्तौ यदि साध्यं न स्यात् तदा हेतुर्न स्यात् तद्वाषकात्पूर्वमेव बाधसम्भवादिति विपक्षे बाधक इति भावः । ब्रह्मज्ञानबाध्यं' शुक्तिरूप्यादिकमपि स्वाभावादिसमसत्ताकमेव, प्रमात्रा सह बाध्य- त्वस्य व्यावहारिकत्वस्य उभयत्रापि तुल्यत्वात् । प्रपञ्चेति । स्वस त्यत्वादिघटितप्रपञ्चेत्यर्थः । समसत्ताकत्वादिति । प्रपञ्चसत्यत्वस्य तात्त्विकत्वासम्भवादिति शेषः । अथवा एकंत्र प्रसक्तयोर्विरुद्धयो रेकस्यापरापेक्षया अन्यूनसत्ताकत्वं प्रत्यमिथ्यात्वं न प्रयोजकं, किन्तु स्वाश्रयसमसत्ताकत्व' मतो मिथ्यात्वं प्रपञ्चे मिथ्यापि सत्यत्वान्नयूनसत्ता कं प्रपञ्चसमसत्ताकत्वात् । तच्च प्रपञ्चबाधकबाध्यत्वान्नासिद्धमित्याशयेनाह- एकबाधकेति । समसत्ताकत्वादिति । प्रपञ्चमिथ्यात्वस्य प्रपञ्चसत्वत्तं प्रत्यन्यूनसत्ताकत्वेन तस्याः तात्त्विकत्वासम्भवादिति शेषः । बाघात् बाघसम्भवात् । ननु मिथ्यात्वं न स्वाश्रयसमसत्ताकं तस्य प्रातीति- 1 सत्ताक A.S.V. 8