पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्य यामद्वैतसिद्धौ [प्रथमः , स्त्विदमाकारान्तःकरणवृत्ति सद्भावेना नुत्प भाधिष्ठान तवसाक्षा- त्कारस्य भवत्येव । तदभावे तद्विलम्बादेव विलम्ब इति न काप्यनुपपत्तिः । तथाच सर्वप्रत्ययानां स्वगोचरशूरत्वात्प्रतीति- काले रजतस्य विद्यमानता सिद्धा | न चैवं - -- तात्त्विकत्वमपि सिद्धयेत् तस्यापि प्रातीतिकत्वादिति- वाच्यम्; अपरोक्ष- प्रतीत्या तावत्रिकालाबाध्यत्वरूपं तात्त्विकत्वं विषयीकर्तुं न शक्यत इत्युक्तत्वात् । परोक्षप्रतीत्या विषयीकृतमपि तात्विक- त्वं प्रातीतिकमेव ; कालान्तरबाधेन पुनरतात्विकत्वस्य संभ- योग्यत्वान्न साक्षिग्राह्यता | स्थूलावस्थारूपेण पुनरुत्पत्तिर्वक्ष्यमाणसामग्रचा नानुपपन्ना । एतेनविलयो यदि ध्वंसस्तदा पुनरुत्पत्तिर्न स्यात्, यदि तिरोधानं तदा रूप्यादौ तदसंभवः; पिशाचादेरेव तत्संभवादित्य- पास्तम् । स्वगोचरशूरत्वात् बाघादिमानान्तराविरोधेन स्वविशेष्ये स्वविशेषणव्यवस्थापकत्वात् || प्रतीतिकाल इति । ननु - प्रतीत्यभावकालेऽपि घटादिरिव शुक्ति- रूप्यादिरपि वर्तताम्; घटादाविव तत्राप्यसञ्जातबाघे प्रतीत्यमा वकालोत्तरं तदेवेदमिति प्रत्यभिज्ञानादिति - चेन्न; दोषादिशून्यपुरुषम्यापि संस्कार- सहितसाक्षिणा प्रत्यभिज्ञापत्तेः । न च-दोषादिहेत्वभावेनाविद्यावृत्त्य- भावान्नोक्तापत्तिरिति -- वाच्यम्; आगन्तुकदोषादिकं विनापि स्मृत्या- दिरूपाविद्यावृत्त्युत्पत्त्या रूप्यादावेव दोषादेर्हेतुत्वात् रूप्यभ्रमोत्तरं रङ्गभ्रमकाले रूप्याग्रहणेन रूप्यनाशस्यावश्यकत्वाच्च । न च तत्र स्वरूप गोचराविद्यावृत्तिरेवोत्तरविद्यावृत्त्या नश्यति, न तु रूप्यामिति -- वाच्यम्; सुखदुःखादितदाकारवृत्तिरूपयोर्मनःपरिणामयोरुत्तरेण मनः- परिणामेनेव रूप्यतदाकारवृत्तिरूपयोरविद्यापरिणामयोरुत्तराविद्यापरिणा- , 1 स्वरूपागो-क. स्वरूप्य - ख. 172