पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविद्यकर जतात्पत्त्युपपत्तिः पारच्छेदः] पटत्वविरुद्धतया , - न ज्ञानं तदा घटत्वज्ञानेन तदज्ञाननाशेऽपि पटत्वविरुद्धतया अज्ञातविशेषाज्ञानस्य सत्त्चात्तदुपादानक एव भ्रम इति न काप्यनुपपत्तिः । न च – साक्षिवेद्याज्ञानसुखादौ ज्ञानाभावत्वदुःखाभावत्वारोपौ न स्याताम् अज्ञानरूपोपादा- नाभावादिति – वाच्यम्; दुःखाभावाभिन्नत्वेन ज्ञानाभावभिन्न- त्वेन दुःखत्वविरुद्धधर्मवत्तयाऽज्ञानत्वविरुद्धधर्मतया वा अधि ठानज्ञानं भ्रमनिवर्तकम् । तच्च विरोधभेदादि न साक्षिगम्यम्, किंत्वनुपलब्धिगम्यम् । तथाच तदज्ञानमेव भ्रमोपादानम् । न च – परोक्षाध्यासो न परोक्षज्ञानेन निवर्तेत, तस्याज्ञानानिव- र्तकत्वादिति वाच्यम्; परोक्षाध्यासे हि प्रमातृगता ज्ञानमेवो- पादानम् । तच्च परोक्षज्ञानेनापि निवर्तत इत्युक्तत्वात् । न च - रूप्यं दृष्टाऽधिष्ठानतत्त्वज्ञानं विना निवृत्तस्य पुंसोऽज्ञाननिवृत्य- भावेन रूप्यतज्ज्ञानयोर विद्यापरिणामयोरनिवृत्या रूप्यधीसाम- ग्रीसद्भावेन तद्धीर्दुवीरैवेति – वाच्यम् ; रूप्यं तद्धीचोत्पने ताव- दुदीच्यज्ञानेन उपादाने विलीयेते | उपादानस्य निवृत्तिः परं न भवति ; अधिष्ठानतत्त्वज्ञानाभावात् । रूप्यबुद्धयन्तरोत्पत्ति- दुःखत्वविरुद्धधर्मवत्तया दुःखत्वघटितो यो दुःखाभावत्वविरुद्धो दुःखाभावत्वाभावव्याप्यत्वेन गृहीतः सुखत्वादिरूपो धर्मस्तद्वत्तया । अथवा — दुःखत्वं दुःखहेतुत्वं तद्रूपो यो दुःखाभावत्वाभावव्याप्यतया गृहीतो धर्मः तद्वत्तया । अज्ञानत्वविरुद्धधर्मवत्तया ज्ञानाभावत्वाभाव- व्याप्यतया गृहीतं यदखण्डमज्ञानत्वं तद्वत्तया | न साक्षिगम्यमिति | " सविषयत्वाखण्डाज्ञानत्वादिनैव साक्षिभास्यमज्ञानं न तूक्तविरुद्धधर्म- वत्त्वादिनेति भावः । विलीयेते संस्काररूपेण तिष्ठतः । संस्कारस्या- - - 2 सविषयकत्वा - क. ग. 1 1 दुःखाभावव्याप्यत्वेन - क. ग. - 171