पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वतासद्धा [प्रथमः - चानिर्वाच्यत्वेऽपि प्रतियोगित्वादिकमनुपपन्नमेवेति चेत्, सत्यम्; सत्त्वमेव यत्किंचित्कालाबाध्यत्वरूपं तत्र प्रयोजकम्, न तु त्रिकालाबाध्यत्वरूपम्, गौरवात् । न च तर्हि कथं सति बाध्यत्व- मनुपपन्नम् न सन्मात्रे, किंतु परमार्थसतीत्यवेहि । तथाचा- निर्वाच्यतापक्षे नानुपपत्तिः । नच तर्हि कथमसद्वैलक्षण्यप्रति- योगित्वमसति, कथं वा 'नासदासी' दिति श्रौतनिषेधः; असत्त्वं तावन्निःस्वरूपत्वम् तद्वैलक्षण्यं सत्स्वरूपत्वम्, तथ्य निष्प्रतियोगिकमेव । श्रुत्यर्थोऽपि तदेव । तथाच नास्ति प्रतियोगित्वप्रतिपत्तिः । न च – शशशृङ्गं नास्तीति प्रत्य- क्षत एवासति निषेधप्रतियोगित्वमनुभूयत इति – वाच्यम्; 146 वाच्यम्; भग्नावस्थायां जलाहरणाद्यर्थिनामुपादनस्ये टत्वात् । न हि वस्त्रादेः सङ्कुचितप्रसारितावस्था एककार्यार्थिनैवोपादीयन्ते, न वा वस्त्रादि- स्वरूपं तासु नानुस्यूतम् ; तथाच य आदौ मृत्पिण्डीभूत आसीत् पश्चाद्धटीभूतः स एवेदानीं भन इति प्रत्ययादवस्थासु भिन्नास्वपि व्यक्तिस्वरूपमनुगतमव्याहतमिति भावः । किंचित्कालाबाध्यत्वरूपं 2 अवच्छिन्नं बाघाऽविषयत्वं ब्रह्मतुच्छयोर्ध्यावर्तनायावच्छिन्नान्तम्, ब्रह्माण बाघाविषयत्वं सार्वदिकत्वान्न कालावच्छिन्नम्, तुच्छे काल- स्यासंबद्धत्वादपि न तदवच्छिन्नं तदिति भावः । समाधत्ते – न सन्मात्र इति । बाध्यत्वमनुपपन्नमित्यनुषज्यते । निःस्वरूपत्वं – सत्त्वेन प्रतीत्यनर्हत्वम् । निष्प्रतियोगिकमिति । तथा चासद्विलक्ष- णादिपदमुक्तार्हत्वरूपेण निरूढलक्षणया बोधकमिति भावः । - मुपादाने कार्यान्तरार्थिनामुपादानस्ये- क. ग. 2 किंचित्कालावच्छिन्नं बाधाविषयत्वमित्यर्थः