पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- परिच्छेदः] निषेधप्रतियोगित्वानुपपत्त्या अनिर्वचनीयत्वसमर्थनम् 145 मेवाभावात् । न च तार्ह घटोन ध्वंसप्रतियोगीति प्रत्यय: स्यात् ; न रूपवानित्यस्यापि प्रसङ्गात् । अथ यावत्सत्त्वं रूपसत्त्वाचैवम्, समं प्रकृतेऽपि । वस्तुतस्तु – ध्वंसकालेऽपि घटो ध्वस्त इति ध्वंसप्रतियोगिता घंटे प्रतीयत एव । तथाचानागतवर्तमाना- तीतावस्थाः क्रमेणाविर्भावयंस्तिरोभावयंचानिर्वाच्यो घटः काल- त्रयेऽप्यनुस्यूत इति नः सिद्धान्तः । एवं च सत्यनिर्वाच्यत्वमेव प्रतियोगित्वादौ प्रयोजकमिति स्थितम् । ननु – असद्वैलक्षण्या- पेक्षया लघुत्वात्सत्त्वमेव प्रतियोगित्वादौ प्रयोजकमस्तु, तथा- - कत्वासंभवादिति भावः । यावत्सत्त्वमिति । उक्तबुद्धे रूपबद्भद- विषयकत्वाद्भेदस्य च व्याप्यवृत्तित्वादुक्तबुद्धिरप्रमेति भावः । सममिति । ध्वंसप्रतियोगिभेदस्योक्तषीविषयत्वात्स्यामः, अत्यन्ताभावविषयकत्वे तु द्वयोः प्रमात्वम् । घटस्योत्पत्तिकाले रूपस्येव नाशकाले तत्प्रतियोगि- त्वस्याप्यत्यन्ताभावसत्त्वादिति भावः । यत्तु – स्वाधिकरणक्षणे घटो न नश्यति, किंतु स्वानधिकरणक्षण इति प्रत्ययात्स्वाश्रयक्षणे घटादेर्न नाशप्रतियोगित्वमिति — तत्तुच्छम्; स्वानधिकरणक्षणे नश्यतीत्यत्र हि प्रतियोगित्वे उक्तक्षणावच्छिन्नत्वं न विषयः, तथा सति त्वन्मते एतत्क्षणे नश्यति पदार्थे एतदुत्तरक्षणे न नश्यतीति घी: स्यात् ; किंवा- ख्यातस्योत्पत्त्याद्यर्थकत्वात्स्वानधिकरणक्षणोत्पत्तिकनाशप्रतियोगित्वं घंटे विशेषणम्, तच्च स्वाधिकरणकालावच्छिन्नत्वेऽप्यव्याहतम् । न चैवं- नाशतत्प्रतियोगित्वयोर्भिन्नकालावच्छिन्नयोः संबन्धायोग इति- इति-- वाच्यम् ; ध्वंसप्रतियोगिनोस्तादृशयोः संबन्धस्य त्वयापि वाच्यत्वात् । अधिकरणासंबद्धकालो नावच्छेदक इत्यस्यैव प्रकृतत्वात् । पररीत्योक्ता स्वरीत्याह – वस्तुत इति । अनिर्वाच्यः तत्तदवस्थाभ्यो भेदाभेदा- दिना दुर्वचः । अनुस्यूत इति । नच नष्टघटादेरुपादानापत्तिरिति- VOL TIT 10