पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अवियाऽऽद्यनिवस्थित्वं प्रत्यक्षानुमानप्रमाणनिरूपणम् 121 , समानाधिकरणात्यन्ताभावप्रतियोगिनी, धर्मत्वाद्रूपरसवत्, स- चमसत्वानधिकरणानिष्ठम् असत्त्वं वा सत्त्वानधिकरणानिष्ठम् ; धर्मत्वाद्रूपवत्' इति सामान्यतस्तत्सिद्धेः । न च साध्यैकदेश- सिद्ध्या अंशतः सिद्धसाधनम् ; 'गुणादिकं गुण्यादिना भिन्ना- भिन्नम्, समानाधिकृतत्वात्' इत्यत्रेव सिषाधयिषाबहुलेन सिद्ध- साधनविरहस्योपपादितत्वात् । न च – सत्त्वासत्त्वयोः परस्पर- विरहरूपतया साध्यं व्याहतमिति – वाच्यम्; अतात्त्विकत्वेन – परस्पर विरहानात्मकत्वेन च समाहितत्वात् । भेदस्य तात्त्विक स्यैव निरसिष्यमाणत्वेन न तेन विरोधः । न च ब्रह्मवत्सत्व- राहित्येऽपि सद्रूपत्वेनानिर्वाच्यत्वाभावोपपत्त्या अर्थान्तरम् ; सत्त्वरहितस्य प्रपञ्चस्य सदूपत्वे मानाभावेन बाधात् । ब्रह्मणि च शून्यतापत्तिरेव सद्रूपत्वे प्रमाणम् । न च - 'विमतं सदसदात्मकम्, बाध्यत्वात् व्यतिरेकेण ब्रह्मवत्' इत्याभास- समानाधिकरणात्यन्ताभावप्रतियोगिनी – मिथ समानाधिकरणौ यावत्यन्ताभावौ तत्प्रतियोगिनी | धर्मत्वात् धर्मद्वयत्वात् ' । असत्त्वा- नधिकरणानिष्ठं असदन्यवृत्तिभेद प्रतियोगितावच्छेदकम् सदन्यत्त्वे सत्यसदन्यत्त्वे सति सदसदन्यत् ' बाध्यत्वादित्यनुमाने विशेषण- प्रसिद्धयर्थमिदं बोध्यम् । सिषाधयिषाबलेन एकदेशसिद्धावपि समु दितस्यासिद्धम्य सिद्धेरुद्देश्यत्वबलेन । ननु – सद्भेदादिघटितसाध्य कानुमानव्याघातः, त्वन्मते भेदनिरासात्तत्राह - भेदस्येति । d 2 कि तु . 1 ' यद्यपि मिथ समानाधिकरणात्यन्ताभाववत्त्वं न दृष्टान्तसाधारणमनुगतम्, त्यन्ताभग्वद्वयत्वरूपम् ; तथापि सत्यत्वमसत्त्वात्यन्ताभाव- योगिधर्मत्वात् रूपर्वादत्यनुमाने' इति गपुस्तके अधिकः पाठो दृश्यते, 2 सदन्त्यत्वे सति सद . समानाधिकरणा. , सदन्यत् - ख. • .