पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

120 सव्याख्यायामद्वैतसिद्धौ अथाऽविद्याऽऽद्य निर्वाच्यत्वे प्रत्यक्षानुमान- प्रमाणनिरूपणम्. [प्रथमः प्रमाणं च प्रत्यक्षानुमानागमार्थापत्तयः । प्रत्यक्षं तावत् 'मिथ्यैव रजतमभात्' इत्यादि । न च मिथ्याशब्दोऽसत्पर्यायः; वक्ष्यमाणयुक्तया नृशृङ्गादिसाधारणासत्त्वस्य ख्यायमानरूप्यादौ वक्तुमशक्यत्वात् । न चैतावन्तं कालमसदेव रजतमभादित्यनु- भवविरोधः; अनिर्वाच्यत्वैकदेशसत्त्वव्यतिरेकविषयत्वेनैवोपपत्तेः । नचैवं 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यत्रापि सत्यमित्यस्यासत्त्वव्य- तिरेकविषयतयैवोपपत्तिः; ब्रह्मणि सद्रूपतायाः प्रागुपपादि- तत्वेन तस्यासत्त्वव्यतिरेक विषयत्वकल्पनाया अनुचितत्वात् । तथाच ब्रह्मणि सत्प्रत्ययस्य रूप्येऽसत्प्रत्ययस्य च सत्त्वासत्त्व- योर्बाधकासत्त्वतत्सत्त्वाभ्यां विशेषेण न प्रसङ्गसाम्यम् ।। अनुमानं च 'विमतं' सन्चरहितत्वे सत्यसवरहितत्वे सति सत्त्वासवरहितम्, बाध्यत्वाद्दोषप्रयुक्तभानत्वाद्वा, यन्नैवं , तत्रैवं यथा ब्रह्म । न चाप्रसिद्धविशेषणत्वम् ; सत्त्वासत्वे, अथाऽविद्याद्यनिर्वाच्यत्वे प्रत्यक्षाऽनुमानप्रमाणानरूपणम्, प्रत्यक्षानुमानेत्यादि । अभावस्य प्रत्यक्षत्ववादिनं प्रति प्रत्यक्षेत्युक्तम् । तस्यानुपलब्धत्ववादिनं प्रति त्वभावघटितमिथ्या- त्वेऽनुपलब्ध्यनुमानाद्येव मानं बोध्यम् । ख्यायमानरूप्यादौ । प्रत्यक्षरूप्यादौ । न प्रसङ्गसाम्यमिति | सत्पदम्यासत्त्वाभाववदर्थकत्वे लक्षणापत्तिः ; अबाध्य एव तच्छक्तेः असत्पदम्य तु सदन्यार्थकत्वे न लक्षणेत्यपि बोध्यम् । अप्रसिद्धविशेषणत्वम् -- सत्त्वाभावसमा- नाधिकरणस्यासत्त्वाभावस्य सदसत्त्वरहितत्वांशे विशेषणस्याप्रसिद्धिः । 9