पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः 'आत्ममात्रं मुक्तं स्या 'दितीच्छाया अदर्शनेन मुक्तेरनिष्टत्वा- पत्तिरिति वाच्यम्; इच्छासमयेऽन्तःकरणाध्याससंभवेन यद्यपि नात्ममात्रगतमुक्तीच्छा, तथापि विशिष्टगतमुक्तीच्छाया एव विवक्षितविवेकेन विशेष्यमात्रगतमुक्तिविषयत्वपर्यवसानात्तस्या- मिष्टत्वोपपत्तेः । न चाहमर्थस्यान्तःकरणग्रन्थित्वे मम मन इति धीर्न स्यात् ; चिदचिद्रन्थिरहंकारः, अचिन्मात्रमन्तःकरण मिति भेदेन षष्ठुयुपपत्तेः। न चैवं – 'मनः स्फुरति मनोऽस्ती 'त्यादि- ज्ञानादहमिति ज्ञानस्य वैषम्यानुभवो न स्यात् ; चिदचित्संवल- नविषयत्वाविशेषादिति वाच्यम्; संवलनं हि न संबन्ध- मात्रम्, किंतु तादात्म्येन प्रतिभासः । स च तत्र नास्तीति विशेषात् । ननु – सर्वापि भ्रान्तिर्धशविषया, अन्यथा निर धिष्ठानकभ्रमापत्तेः, नचाहमिति बुद्धेर्व्यशत्वमनुभूयते; कल्प्यते श्रुतिः । अनिष्टत्वापत्तिरिति । अहमर्थधर्मत्वेन नाशित्वापत्त्या परम- पुरुषार्थत्वाभावापत्तिरित्यर्थः । विशेष्यमात्रेति । इच्छाभासकसाक्षिणा- हमर्थभासनादिच्छोल्लेखकालेऽहमर्थोल्लेखेऽपि विवेकिनामहमर्थविविक्ता- त्मगतत्वेनैव मुक्ताविच्छा | अविवेकिनामपि यस्य दुःखमूलवत्वं तत्र तदुच्छेदोऽस्त्वितीच्छायाः शुद्धात्मनि तदुच्छेदरूपमुक्तिविषयकत्वेन पर्यवसानम् ; तस्यैव दुःखमूलाज्ञानवत्त्वात् । शरीरं पुष्टं स्यादिती - च्छोल्लेखस्तु युक्त एव; शरीरत्वेनात्मनि शरीरस्याध्यासाभावात् आत्म- तादात्म्याविशेषितशरीरत्वेनैवेच्छाभासकसाक्षिणा भासनादिति भावः । नास्तीति | स्फुरतीत्यादौ स्फुरणादेराश्रयत्वमाख्यातेनोल्लिख्यते, तादात्म्यमिति भावः । स्फुरणत्वाधवच्छिन्नस्य तादात्म्यमवच्छेदकत्वं वा तत्रोल्लिख्यते, स्फुरणत्वादि त्वनावृतचित्त्वादिकम् | अहमित्यादौ `वविद्योपहितचित्त्वावच्छिन्नस्य तादात्म्यमुल्लिख्यत इति वा विशेषो । न तु -