पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेद:] अहमर्थानात्मत्वोपपत्तिः 73 सुखमनुभवा- रजताध्यासकाल एव रजते अनिदन्त्वाप्रतीतिः । यत्तु कैश्चित्प- रिहियते — सुखानुभवरूपस्यात्मनोऽहमर्थाद्भेदेनैव मीत्यादौ प्रतीतिरिति, तन्न; वैषयिकसुखानुभवस्यात्मान्य- त्वात् । न च – मोक्षेऽहमर्थाभावेनात्मनाशो मोक्ष इति बाह्य- मतापत्तिः, प्रेमास्पदस्याहमर्थस्य त्वन्मतेऽपि नाशात्, तदन्यस्य शून्यस्य तन्मतेऽप्यनाशादिति – वाच्यम्; औपाधिकप्रेमास्पद- नाशेन बाह्यमतप्रवेशापत्तौ शरीरनाशेऽपि तदापत्तेः । एतावता- हमर्थस्य मुक्तचनन्वयेsपि 'माममृतं कृधि' 'ज्योतिरहं विरजा विपाप्मा भूयास 'मिति श्रुतिरपि चैतन्यगतमेवामृतत्वं विषयी- करोति' ' 'अहं पुष्टः स्यामि' तीच्छेव स्वसमयविद्यमानशरीरवृत्ति- पुष्टिम् । न च – 'शरीरं पुष्टं स्या 'दिति शरीरमात्रे पुष्टेच्छावत् - , त्वस्याध्यासपूर्वं भानसंभवात् । कैश्चित् – परमतानुयायिभिः । भेदे- नैवेति । तथा चाहंकारस्य नात्मन्यैक्यारोप इति तस्य प्रेमास्पदत्वा- संभव इति भावः । वैषयिकेति । यद्यप्यात्मैव सुखस्वरूपम् तथापि सुखमनुभवामीत्यादौ विषय संबन्धजन्यवृत्त्यवच्छिन्नात्मैव सुखपदवाच्य इति स एव तत्र विषय इति भावः । आत्मान्यत्वात् यादृशे अविद्योपहितात्मन्यहंकारैक्याध्यासस्तद्वैलक्षण्यात्तद्वृत्तेरहमर्थभेदस्य प्रती- यमानस्याश्रयत्वात् । वैषयिकसुखानुभवेऽहमर्थ' भेदधी, अहमर्थाधारे अविद्योपहिते त्वैक्यधीरेवेति भावः । स्वभावतः सुखरूपेण भासमानं यत्तस्य न मन्मते नाशः, मनस्तु शरीरमिव न तथेति तन्नाशो मोक्षे न दोष इत्याह - औपाधिकेति । माममृतं कृधीति । 'यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र मामृतं कृधी' ति 6 1 नुभवेऽर्थ - क. ग. 2 र्थाधिष्ठाने-ग.