पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 71 वाच्यम् ; इदम इवाधिष्ठानावच्छेदकत्वेनाधिष्ठानत्वोक्तेः । परमप्रेमास्पदत्वमहमर्थे आत्मैक्यारोपात् । न चैवमन्योन्या- श्रयः; सुषुप्तिकालीनप्रकाशाप्रकाशाभ्यां वैधर्म्येण भेदसाध- नात् । न चाहमर्थप्रेम्णोऽन्यस्य प्रेम्णोऽननुभवः; परामर्श- सिद्धसुषुप्तिकालीनतादृशप्रेमानुभवस्य सत्त्वात् । न चाहिते हितबुद्धया प्रेमोत्पत्तिदर्शनेऽप्यप्रेमास्पदे प्रेमास्पदतारोपो न दृष्ट इति – वाच्यम्; अहमर्थे आत्मैक्यारोपनिबन्धनं प्रेमास्य- दत्वम्, न तु स्वाभाविकमिति ब्रूमः, न तु प्रेमास्पदत्वारोपम् । अहमर्थात्मनो र्भेदेऽप्यहमर्थस्य प्रकाशाव्यभिचारः स्वप्रकाशात्म- संबन्धं विना न घटत इति सोऽपि तत्र प्रमाणमिति नायुक्तिले शोपि । न च - अहमर्थानात्मत्वोपपत्तिः समारोप्यस्य रूपेण विषयो रूपवान्भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत् || ' इति वाचस्पत्युक्तेरन्तःकरणगता प्रेमास्पदत्वस्यैवात्मनि प्रतीत्या - रन।त्मत्वात्साध्यसाधनावैकल्यम् | अधिष्ठानावच्छेदकत्वेन आधार तावच्छेदकत्वेन'। यथाश्रुतेऽनवच्छिन्नचित एव मूला विद्याविषयत्वरूपेण गौरत्वाद्यध्या साधिष्ठानत्वेनासङ्गतिः । सुषुप्तिकालीनेति । सुषुप्तौ निर्वि- कल्पकसुखधीरेव प्रेमोत्पादिका, प्रेम चनेच्छा; येन सिद्धसुखे न स्यात्, किंतु स्नेहरूपवृत्तिविशेषः । अथवा सुषुप्तीत्यादेः सुषुप्तिकाली- नस्य प्रेममूलानुभवस्येत्यर्थः । तथा च सुषुप्तौ सप्रकारकज्ञानेच्छयोर- संभवेऽपि सुषुप्तानुभवजन्यस्मृत्या सौषुप्तसुखे उत्तरकालसत्त्वेनेच्छा अह- मर्थविषयिका' नेत्यर्थः। नायुक्तिलेशः न किमप्ययुक्तम् । रूपेण-धर्मेण । विषयः–अधिष्ठानम् । रूपवान् - धर्मवान् । अप्रेमास्पदत्वस्यैवेति । एव- 1 आरोपात्पूवमधिष्ठानगतत्वेन -ग. - 2 र्थाविषयिका – क.