पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः कर्तृत्वादिकमात्मनि धर्मत्वेजप कर्तृत्वादेस्तदाश्रयस्यामानेऽपि भासताम्, 'गौरोऽह' मित्यत्र शररिगतगौरत्वमिवेति – चेन्न; दृष्टान्तासंप्रतिपत्तेः, तत्रापि देहत्वेनाभानेऽपि गौरत्वमनुष्य- त्वादिना तत्प्रतीतेः । अनुमानं च – अहमर्थः, अनात्मा, अहं - प्रत्ययविषयत्वात्, शरीरवत् । न चाहमर्थान्तर्गताधिष्ठान- भूतचितोऽपि तत्प्रत्ययविषयत्वात्तत्र व्यभिचारः; येन रूपेणा- हंप्रत्ययविषयता तेन रूपेण तस्याप्यनात्मत्वात् स्वरूपेणाहं- प्रत्ययाविषयत्वाभावान व्यभिचारः । अहमर्थः, आत्मान्यः, अहंशब्दाभिधेयत्वात्, अहंकारशब्दाभिधेयवत् । नचात्रासिद्धिः पर्यायताया दर्शितत्वात् । न च – त्वयाप्यात्मनो गौरोऽह- मित्यनात्मारोपाधिष्ठानत्वं मा न भूवं भूयासमित्यादिना परम- प्रेमास्पदत्वमहमर्थस्य स्वसत्तायां प्रकाशाव्यभिचारेणात्मनः स्वप्र- काशत्वं चोक्तम्, तत्सर्वमहमर्थस्यानात्मत्वे न युक्तं स्यादिति- तत्रापि गौरोऽहमित्यत्रापि । तत्प्रतीतेः गौरत्वाद्याश्रय- प्रतीतेः । तथा चानुभूयमानारोपस्थले धर्माध्यासस्य प्रतिबिम्बरूपत्वं धर्म्यध्यासव्याप्यत्वं वेति नियमेन प्रकृते प्रतिबिम्बरूपत्वाभावे धर्म्य- ध्यास आवश्यकः । अत एव 'सुरभि जलमित्याद्यनुभूयमानारोपे धर्म्यध्यासावश्यकत्वम् । स्मर्यमाणसौरभाद्यारोपे तु क्वचित्तदभावेऽपि न क्षतिरिति भावः । विषयत्वादिति । विशिष्टबुद्धेः शुद्धविशेष्य- कत्वनियमाङ्गीकारेऽपि विषयत्वं किंचिद्रूपावच्छिन्नं निवेश्यम् । शुद्धे तु विषयत्वं न केनापि रूपेणावच्छिन्नमिति भावः । अहंशब्दाभिधेय- त्वात् मान्ताहंपदवाच्यत्वात् । वाच्यत्वमात्रं परमते व्यभिचारीति विशेषणम् -- अहंकारशब्देति । परमते मान्ताहंपदाहंकारपदवाच्ययो- 1 स्थाने–ग,