पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीरच्छेदः] अहमर्थानात्मत्वोपपत्तिः 61 - एव – ' स एवेदं सर्वम्' ' अहमेवेदं सर्वम् ' 'आत्मैवेदं सर्व- मित्याद्युपसंहाराणां ' स एवाधस्तादहमेवाधस्तादात्मैवाधस्ता' - दित्युपक्रमैः 'सर्व समाप्रोषि ततोऽसि सर्व' इत्यादिस्मृतिभिश्व सर्वगतत्व परत्वेन न सार्वात्म्यपरत्वम् येनाहंपदस्य निष्कृष्टा- हंकार चैतन्यपरत्वं स्यात् । सर्वगतत्वं चानेकेष्वपि संभवत्येव । भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्धया मध्येऽहंकारोपदेश - वैययं चेति - निरस्तम् । ' स भगवः कस्मिन् प्रतिष्ठित' इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टम् परमार्थतः क्वचि- दधिष्ठितत्वं वा । आद्ये स्वे महिम्नीत्युक्त्वा द्वितीये भूमातिरिक्तमेव - । देव | सर्वगतत्वं चेति । वाच्यत्वज्ञेयत्वादिष्विवेति शेषः । स्वे महि- नीत्युक्तेति । स्वर्काये प्रपञ्च रूपे महिम्नि स्थित इत्यर्थकं स्वे महिनि प्रतिष्ठित इत्युक्तेत्यर्थः । ननु यदि स्वे महिनि स्थितस्तर्हि 'राजा गजाश्वादिमहिमस्थ ' इत्यादौ स्वसमानसत्ता के भोगसाधने महिमपदप्र- योगात् प्रपञ्चस्य ब्रह्मसमसत्ताकत्व प्राप्तया सद्वृत्तिभेदप्रतियोगित्वादिरू- पस्य वस्तुपरिच्छेदादेः प्राप्तया ब्रह्मणोऽपरिच्छिन्नत्वरूपभूमत्वव्याघात इत्याशङ्कायां ' गोऽश्वमहिमेत्याचक्षत इत्यादिना कृतायां, नात्र महिम- शब्द उक्तार्थकः; उक्तदोषात् ' किंतु स्वशब्दस्य स्वाध्यस्तरूपस्वी - यार्थकत्वात्तदन्वय योग्यत्वात् सङ्कोचकाभावाच्च दृश्यमात्रमेव तदर्थः, महिमशब्दो सुत्कर्षवाची, स च राजादौ स्वामित्वादिद्वारा गोऽश्वादिक- मिव ब्रह्मणि भासकत्वादिद्वारा दृश्यमात्रमपीत्याशयेन 'नाह मेवं ब्रवीमीति होवाचे'त्यनेन निरस्तायामिति शेषः । द्वितीय इति । द्वितीयकोटिनिषेधे 'यदि वा नो महिम्नीति' वाक्येनोक्त इत्यर्थः । हेत्वा- 1 1 गौण एवमिह महिमे-ख. ग. गो एवमिह महिमो- क.