पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहमर्थानात्मत्वोपपत्तिः परिच्छेदः] ' हंकारात्मनां बिम्बप्रतिबिम्बमुखस्थानीयाविद्योपाधिकब्रह्मजीव- चिन्मात्रत्व संभवे नाहंकारस्य जीवात्पार्थक्यासिद्धिरिति – वा च्यम्; 'यत्र नान्यत्पश्यति' ' स एवाधस्ता' दित्यादिना भूम- स्वरूपोक्तयनन्तरं यत्रेत्याद्यधिकरणाधिकर्तव्य निर्देशात्स इति पारोक्ष्यनिर्देशाच्च द्रष्टुर्जीवादन्यत्वप्रसक्तौ तद्वारणार्थं 'अथातोऽ- हंकारादेश' इत्यहंकारेण भूनि निर्दिष्टेऽहंकारस्य देहादिसङ्घातेऽ- विवेकिप्रयोगदर्शनात्तदभेदप्रसक्तौ निष्कृष्टाहंकार केवलात्मस्वरूप- मादाय 'अथात आत्मादेश' इति द्रष्ट्रभेद उच्यत इत्येतादृशार्थ - भेदायोगात् । जडत्वं चात्र परिच्छिन्नत्वादिज्ञापनायोक्तम्, तेन परमतेऽ- हमथस्यानु 'रूपस्याजडत्वस्वीकारेऽपि परिच्छिन्नत्वादिस्वीकारावश्यकत्वा- द्ब्रह्मैक्यासंभव इति भावः । अविद्योपाधिकब्रह्मजीवेति । अविद्या- बिम्बप्रतिबिम्बरूपब्रह्मजीवेत्यर्थः । पार्थक्यासिद्धिरिति । तथाचाह- मर्थस्य शुद्धात्मभेदेऽपि सुषुप्तौ तदभानायुक्तिरसङ्गतेति भावः । यत्र नान्यदित्यादि । यत्र ब्रह्मणि अन्यदृश्यं अन्यो द्रष्टा पश्यतीत्यादि- रूपा त्रिपुटी नास्तीत्यर्थः । द्रष्टुरिति । भूम्नीत्यादिः । भूम्नि निर्दिष्ट इति । अहंकारादेशवाक्ये यस्य सार्वात्म्ये तात्पर्यं तद्भूमाभिन्नम् ; द्वयोः सार्वात्म्यायोगादिति ज्ञापिते सतीत्यर्थः । अविवेकीति । अहंङ्कारेत्यस्योच्चारयितृशक्तत्वेऽपि चिदचित्संवलितम्योच्चारयितुरविवेके- नैव ग्रहः । शुद्धात्मनि प्रयोगो यद्यप्युक्तार्थरूप शक्यसंबन्धज्ञा नात्, तथापि शुद्धात्मस्वरूपज्ञानस्य प्रमात्वान्नाविवेकाधीनत्वम् । अहमर्थस्या विद्याप्रयुक्तत्वेन गृहीतुरविवेकित्वमुक्तमिति बोध्यम् । द्रष्ट- भेद इति । आत्मादेशवाक्यं शुद्धात्मसार्वात्म्यबोधनद्वाराहंकारादेश- वाक्यस्य सर्वात्मकचिद्धदिताहंकारे तात्पर्यमुक्तरीत्या ग्राहयतीत्यहंकार- शुद्धात्मनोर्भेदे पर्यवसन्नम्” । यदि चाहंकारवाक्यस्थाहंकाराहमादिपदा- 1 अणु-ग. * पर्यवसानम् – क. ग. 59