पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिर्विरचितो- नाम्रा आलिङ्गितं नाम तदपि प्राणनाशनम् || अथास्य मोहमध्ये तु मर्मैकं समुदाहृतम् ॥ ४० ॥ तस्मिन्क्षते महीपाल नागः प्राणैर्वियुज्यते ॥ पारुण्यपश्चिमे भागे कर्मस्योपरि पार्थिव ॥ ४१ ॥ पलिपादे महीपाल मर्म प्राणहरं स्मृतम् || पुरोनस्वस्य यरपार्श्वे नखो (ो) तस्य मध्यतः ॥ ४२ ॥ मर्म तस्मिन्क्षते नागं गात्रशोको विनाशयेत् || • स्तनयोकः पार्श्वे मकं पृथिवीपते ॥ ४३ ॥ सद्यः प्राणहरं तु स्पाद्वारणस्य हि पार्थिव || अथ वङ्क्षणपार्श्वे तु मर्मैक समुदाहृतम् ॥ ४४ ।। रक्तश्रो ( स्रो) तोवहं नाम तदपि प्राणनाशनम् || वक्षणस्याप्यधोभागे वारणस्य महीपते ॥ ४५ ॥ मर्म तस्मिन्क्षते नागः सद्यः शोफेन नश्यति ॥ अष्टव्यिसंधिमाश्रित्य मर्मैकं तु महीपते ॥ ४६ ॥ क्षते तत्र भृशं नागस्त्वपरे परिकर्षति || मण्डूक्या वाऽपि नागस्य मर्मैकं समुदाहृतम् ॥ ४७ ।। क्षते तस्मिन्महीपाल ख (ष)ण्ट: संजायते गजः ॥ तथा सकुटिकायां तु मर्मैकं समुदाहृतम् || ४८ || सद्यः प्राणहरं त्वेतद्वारणस्प विनिर्दिशेत् || अपरातलपोर्मध्ये मर्मैकं समुदाहृतम् ॥ ४९ ॥ सद्य:प्राणहरं तं तु वारणस्य विनिर्दिशेत् || इत्येष कीर्तितः सम्यक्मविभागस्तु मर्मणाम् ॥ ५० ॥ यथावदनुपूर्वेण वारणानां हितैषिणा ॥ [ ३ शल्यस्थाने- तत्र मागेषु सर्वेषु मर्माणि परिरक्षयेत् ॥ ५१ ॥ मर्मभागेषु नागानां शस्त्रकर्म न कारपेत् || सृपर्क भिषजा ज्ञात्वा शस्त्रकर्म नियोजयेत् || १२ || शस्त्रकर्माणि नागस्प शिरास्त्रायश्च वर्जयेत् || सर्वसंधिषु मर्माण विज्ञाय कुशलो भिषक् || ५३ || मर्मभागेषु नागस्य तिर्थक्शस्त्रं न पातयेत् || अनुलोमं तु यत्रैवं पथेष्टं सिद्धिरिष्यते ॥ ५४ ॥ १ ख. स्नायुश्च ।