पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । उत्कर्णकेन मोतङ्गः क्षते तस्मिन्न जीवति ॥ अधस्तात्पेचकस्पाथ गुदभागस्य चोपरि ॥ २६ ॥ मर्म तस्मिन्क्षते नागो मूत्रसङ्गेन नश्यति || अथ निष्कोशमध्ये वै मर्मैकं मनुजाधिप ॥ २७ ॥ सद्यः प्राणहरं तनु वारणस्प ('विनिर्दिशेत् || पर्शुकास्तु समाश्रित्य निष्कोसस्प तु पार्श्वतः ॥ २८ ॥ मर्म प्राणहरं तत्तु वारणस्य) नराधिप || पक्षतोऽप्पथ नागस्प मर्मैकं समुदाहृतम् ॥ २९ ॥ • क्षते तस्मिन्महीपाल वातानाहः प्रधावति || वारणस्य महीपालं कक्षामागं समाश्रितम् ॥ ३० ॥ मर्म तस्मिन्क्षिते नागं पाकलस्तु विनाशयेत् || तनुभागस्य चाधस्तान्मर्म रन्धसमाश्रितम् ॥ ३१ ॥ तस्मिन्क्षिते वारणस्य व्याधिरुत्कर्णको भवेत् || कक्षाभागस्य मध्ये तु क्षयभागं समाश्रितम् ॥ ३३ ॥ मर्म माणहरं विद्धि वारणस्प महीपते ॥ तु यव॰ । उपरिष्टात्तु कायस्य मर्मभागाः प्रकीर्तिताः ॥ ३३ ॥ गात्रापरे प्रवक्ष्यामि मर्माणि प्रविभागशः || आसनस्य तु पार्श्वे तु मर्मैक समुदाहृतम् ॥ ३४ ॥ तंतस्तस्मिन्क्षते नागं गात्रशोफो विनाशयेत् || . अपस्कारस्य वाधस्ताद्वैशाखस्य तु मध्यतः ॥ ३५ ॥ तत्र क्षतस्तु मातङ्गः स्तब्धगात्रः सदा भवेत् || गात्रस्य पूर्वभागे तु जवभागस्य पार्श्वतः ॥ ३६ ॥ तत्र मर्म महीपाल सद्यः प्राणहरं स्मृतम् || विष्कयोः पश्चिमे भागे वालपस्तत्र दृश्यते ।। ३७ ।। मर्म तस्मिन्क्षते नागः सद्यः प्राणान्विमोचपेत् || विशेषयोः पश्चिमेन व ( प )लिहस्तस्प मध्यतः ॥ ३८ ॥ मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते || नेत्रमण्डलमागे तु मर्मैकं पृथिवीपते ॥ ३९ ॥ + धनुश्विकान्तरगतो नास्ति पाठः खपुस्तके | १ क. ख. मागतः | २ क. ०कोसम | ३ क. वातानाहं । ५०९