ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम् ॥ ९४ ।। |
वा० भा०-स्पष्टम् । ९४ ॥ इदानीमस्योत्तरमाह-
कुज्याग्रापमशिञ्जिनीयुतिमिनैः १२ क्षुण्णां पृथक्स्थां भजेत् । |
वा० भा०-अत्र या क्रान्तिज्यासमशङ्कुतद्धतियुति: कुज्योनिता विशत्यश्वरसे ७२० मिता दृष्टा तया यान्या कुज्याग्रापमशिञ्जिनीयुतिः षटयङ्कचन्द्रैमिता १९६० दृष्टा तां द्वादशभिः सङ्गुण्य पृथक् स्थापयित्वा भजेत् । लब्धं पलभा स्यात् । ततः पलकर्णः कार्यः । पलकर्णस्य पलभाया द्वादशानां च योगेन तां पृथक् स्थापितां भजेत् । लब्ध क्रान्तिज्या स्यात् ८४० । अत्र पलभा. ३ । ३० । पलकर्णः १६॥३० । अत्र समशङ्कुः ३००० ॥ अग्रा ८७५ ॥ कुज्या २४५ । तद्धतिः ३१२५ ।।
अत्रोपपतिबजक्रियया । तत्राज्ञातानां बहुत्वादनेकवर्णकल्पनया वर्गगतया क्रिया प्रसरति न निर्वहति च । अतोऽत्र सद्युक्तिः ।। क्रान्तिज्या तावत् पलक्षेत्रकोटिः । कुज्या भुजः । तथा समशङ्कुः कोटिः ॥ अग्रा भुजः । तथा तद्धृतिः कुज्योनिता कोटिः । क्रान्तिज्या भुजः ॥ अत्र यः प्रथमं दृष्टो योगः स कोटीनां योगः । द्वितीयो भुजानाम् ॥ भुजकोटियोगौ भुजकोटित्वं न त्यजतः ॥ अतोऽनुपात ॥ यदि कोटियोगमित्या कोट्या भुजयोगमितो भुजो लभ्यते तदा द्वादशाड्गुलमित्या कोट या किमिति । फलं पलभा ॥ {{gap}अथ क्रान्तिज्याज्ञानार्थं युक्तिः । येयं कुज्याग्रापमशिञ्जिनीयुतिः सा पलक्षेत्रभुजकोटिकर्णानां च भवति । तत्र कुज्या भुजः । अग्रा कर्णः ।। क्रान्तिज्या कोटिः । अतोऽत्रानुपातः ॥ यदि पलभापलकर्णद्वादशानां योगेन द्वादशकोटिर्लभ्यते तदा कुज्याग्रापमशिब्जिनीनां योगेनकिमिति । एवमत्र कोटि: क्रान्तिज्या लभ्यते । अतो विलोमविधिना रविरित्युपपन्नम् ॥ ९५ ।। अथान्यं प्रश्नमाह—
पूर्णाब्ध्यब्धिमहीमिता १४४० मथ परां खाभ्रष्टभूसंमिताम् १८०० । |
वा० भा०-सुगमम्। ९६ ।
सि०-२८