सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/261

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
मध्यमाधिकारे कालमानाध्यायः

 २१६ सिद्धान्तशिरोमणी ग्रहगणिते

{{{1}}}

वा० वा०-कुज्योनतद्धृतिहृता इति ।

 अत्रोपपत्तिः---सोपायग्रहकौतुकखगकृतितिथिसिद्धिसोपायजातकपद्धतिताजिकपद्धति सिद्धान्तवासनाश्लोकमुहूर्ततत्त्वप्रवरनिर्णयकुण्डक्षेत्रफलकायस्थादिधर्मपद्धतिकृद्धि. केशवसाम्वत्सराचार्येव्यंतनैवोत्ता । पलभातः कुज्योनतद्धृतिरनुपातद्वयेन ज्ञायते । पलभाभुजे द्वादशकोटि: कुज्याभुजे का कोटिरिति जाता क्रान्तिज्या। पुनर्यदि पलभाभुजे द्वादशकोटिस्तदास्यां क्रान्तिज्यायां का कोटिरिति द्वादशवर्गगुणिता कुज्या पलभावर्गभक्ता कुज्योनतद्धृतिः स्यात् । विलोमेन कुज्योनतद्धृतिहृता द्वादशवर्गगुणा कुज्या पलभावगों भवेदिति कि चित्रम्। अत उत्तमाचायेंण कुज्योनतद्धृतिहृतेत्यादि।

 अस्यैव वासना केशवसाम्वत्सरपौत्रमंध्यस्पष्टाधिकारद्वयटिप्पणजातकसारहिल्लाजपद्धतिदैवज्ञकण्ठाभरणादिग्रन्थकृद्भिरस्मत्पितृव्यचरणविष्णुदैवज्ञगुरुभिर्नृसिहदैवज्ञैः प्रकारान्तरेणोता । कुज्याभुजे क्रान्तिज्याकोटि: क्रान्तिज्याभुजे का कोटिरिति प्रसिद्धतद्धृतेः स्वरूपमिदम् । क्रान्तिज्यावर्गः कुज्याभक्तः कुज्योनतद्धृतिः स्यात् । तस्मात् कुज्यागुणिता कुज्योनतद्धृतिः क्रान्तिज्यावर्गो भवति । ईदृशे क्रान्तिज्यावर्गे कुज्यावगीं भुजस्तदा द्वादशवर्गातुल्यकोटी को भुज इति पलभावगीं भवति । अत्र गुण्यहरौ कुज्ययापवत्र्यं कुज्योनतद्धृतिहृतेति सिद्धयति । पक्षयोः साम्यं विधाय तथा तयोः पक्षयोः किञ्चित् क्षेप्यं शोध्यम् । वा यथैकस्मिन् पक्षे व्यक्तमेव स्यात् । अन्यस्मिन् पक्षे त्वव्यक्तमेव स्यात् । अन्यथा त्वव्यक्तराशेर्व्यक्तमानं कथमपि न स्यात् । अत एवाचार्येणकाव्यक्त शोधयेदन्यपक्षाद्रपाण्यन्यस्येतरस्माच्च पक्षादित्युक्त बीजे। यद्यनेनाव्यक्तराशिनायं व्यक्तराशिलभ्यते तदैकेनाव्यक्तेन किमित्यनेन ‘शेषाव्यक्तेनोद्धरेद्रूपशेषं व्यक्तं मानं जायतेऽव्यक्तराशेरित्युक्तम्' । एवं

  • अव्यक्तवर्गादि यदाऽवशेषं पक्षौ तदेष्टेन निहत्य किञ्चित् ।

            क्षेप्यं तयोर्येन पदप्रदः स्यादव्यक्तपक्षोऽस्य पदेन भूयः ॥
            व्यक्तस्य पक्षस्य समक्रियैवमव्यक्तमानं द्विविधं क्वचित्तत् ।
            अव्यक्तमूलर्णगरूपतोऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात् ॥

 ऋणं धनं तच्च विधाय साध्यमव्यक्तमानं द्विविधं क्वचित्तत् । अव्यक्तमानस्य व्यक्तमानकरणामाचार्येरेवोत्त तेन बीजक्रियया निबद्धसूत्रस्योपपत्तिव्यक्तमार्गेणोच्यते कोङ्कणाचार्यैस्तत्र किं चित्रम् । ‘अव्यक्तवर्गादि यदावशेषमित्यस्योपपत्तिरस्मत्पितृव्यविष्णुदैवज्ञाप्तविद्यः कृष्णज्योतिविद्भिबीजगणितटीकायां सम्यगुक्ता । तत एवावगन्तव्या ॥ ९३ ॥ − अथान्यं प्रश्नमाह -

क्रान्तिज्यासमशङ्कुतद्धृतियुर्तिं कुज्योनितां वीक्ष्य यो
              विंशत्यश्वरसैः ६७२० मितामथ परां षष्टयङ्कचन्द्रैर्मिताम् १९६० ।।


१. बी० ग० ए० म० १-३ श्लो० । किन्तु व्यक्तस्य मूलस्य' इ० मु० पु० ।