सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७३५
बालमनोरमा ।

कर्णादिभ्यः फिञ्’ कार्णायनिः । 'सुतङ्गमादिभ्य इञ्’ । सौतङ्गमिः । 'प्रग द्यादिभ्यो ञ्यः' प्रागद्यः । * वराहादिभ्यः कक्' वाराहकः । कुमुदादिभ्य- ष्ठक्’ कौमुदिकः ।

१२९३ । जनपदे लुप् । (-२-८१)

जनपदे वाच्ये चातुरार्थिकस्य लुप्स्यात् ।

१२९४ । लुपि युक्तवद्व्यक्तिवचने । (१-२-५१)

लुपि सति प्रकृतिवलिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गा: । वङ्गा: । कलिङ्गाः ।

१२९५ । तदशिष्यं संज्ञाप्रमाणत्वात् । (१-२-५३)

युक्तवद्वचनं न कर्तव्यम् । संज्ञाना प्रमाणत्वात् ।

१२९६ । लुब्योगाप्रख्यानात् । (१-२-५४)

लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।

१२९७ । योगप्रमाणे च तदभावेऽदर्शनं स्यात् । (१-२-५५)


जनपदे लुप् ॥ चातुर्थिकस्येति ॥ प्रकरणलभ्यमिदम् । लुपि युक्तवत् । प्रकृतिभूतः शब्दः युक्तः, व्यक्तिः लिङ्गं, वचन सङ्खयेति पूर्वाचार्यसङ्केतः । तदाह । लुपि सति प्रकृतिव- लुिङ्गवचने स्त इति ॥ लुबिति प्रत्ययादर्शनमुच्यते । लुपः प्रवृत्तेः प्राक् प्रत्ययप्रकृतेर्यल्लिङ्गं वचनन्ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः । पञ्चालानामिति ॥

पञ्चालसंज्ञकानां राज्ञामित्यर्थः । पञ्चाला इति ॥ तस्य निवास इति विहितस्याण: ’जनपदे लुप्' इति लुपि प्रकृतिवत् बहुवचनामिति भावः । कुरव इत्यादि ॥ कुरूणाम् अङ्गानां वङ्गानां कालङ्गानाञ्च निवासो जनपद इति विग्रहः । लिङ्गातिदेशे तु कटुबदर्या अदूरभवो जनपदः कटुबदरीत्युदाहार्यम् । तदेतत्पूर्वाचार्यसूत्रम्पाणिनिः प्रत्याचष्टेः । तदाशिष्यम् ॥ यथा दारा इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्येव स्त्रीरूपार्थस्य भानम्, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्ग- सङ्खयाविशिष्टस्यैव स्वार्थस्य लोकव्यवहारादेव भानं सम्भवति, न तु तदंशे शास्रव्यापारा- पेक्षेति भावः । संज्ञानामिति ॥ लोकव्यवहाराणामित्यर्थः । एवञ्च लुगाप न विधेय इत्याह । लुब्योगाप्रख्यानात् ॥ अशिष्यमित्यनुवृत्तं पुल्लिङ्गेन विपरिणतं लुबित्यनन्तरं सम्बध्यते । तदाह । लुबपि न कर्तव्य इति ॥ योगः अवयवार्थः, तस्य अप्रख्यानात् अप्रतीतेरित्यर्थः । तदाह । अवयवेति । नहि पञ्चालाङ्गवङ्गादिसम्बन्धित्वेन पञ्चाला अङ्गाः वङ्गाः इत्यादितो बोधः अतः प्रत्यय एव तत्रास्तीति भावः । प्रत्ययस्वीकारे वाधकमाह । योगप्रमाणे च ॥ पञ्चालाङ्गः- वङ्गादिशब्देषु योगस्य अवयवार्थस्य प्रमापके सति तदभावे पञ्चालाङ्गादिक्षत्त्रियसम्भाव