सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१२९१ । कोपधाच्च । (४-२-७९)

अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् ।

१२९२ । वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठको ऽरीहणकृशाश्वर्श्यकुमुदकाशुतृणप्रेक्षाश्मसखिसङ्काशबल- पक्षकर्णसुतङ्गप्रगदिन्वराहकुमुदादिभ्यः। (४-२-८०)

सप्तदशभ्यः गणेभ्यः सप्तदश क्रमात्स्युश्चतुर्थ्याम्। अरीहणादिभ्यो बुञ्’ । अरीहणेन निवृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण्’ । काशश्धीयत् । ऋश्यादिभ्यः कः' । ऋश्यकम् । ’कुमुदादिभ्यष्टच्' । कुमुदिकम् । ’काशा दिभ्य इलः' । काशिलः । तृणादिभ्यः सः' । तृणसम् । ’प्रेक्षादिभ्य इनिः प्रेक्षी । ’अश्मादिभ्यो र:' । अश्मरः । ’सख्यादिभ्यो ढञ्’ । साखेयम् । सङ्काशादिभ्यो ण्यः' । साङ्काइयम् । ’बलादिभ्यो यः' । बल्यम् । ’पक्षा दिभ्यः फक्' पाक्षायण । ’पथः पन्थ च' (ग सू ७९) । पान्थायनः ।


इति ॥ रोण्या निवृत्तः कूप इत्यर्थः । आजकरौण इति ॥ अजकरोण्या निर्तृत्त इत्यर्थः । अणि ’यस्य' इति इकारलोपः । कोपधाच्च ॥ कार्णच्छिद्रक इति ॥ कर्णच्छिद्रकेण निवृत्तः कूप इत्यर्थः। कार्कवाकवमिति । कृकवाकुना निवृत्तः कूप इत्यर्थः । ओर्गुणः, आदिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति॥ त्रिशङ्कना निवृत्तः कूप इत्यर्थः । वुञ्छण् ॥ वुञ्, छण्, क, ठच्, इल, स, इनि, र, ढञ्, ण्य, य, फक्, फिञ्, इञ्, ज्य, कक्, ठक् एतेषां सप्तदशानान्द्वन्द्वात्प्रथमा बहुवचनम् । अरीहण, कृशाश्व, ऋश्य, कुमुद, काश, तृण, प्रेक्ष, अश्मन्, सखि, सङ्काश, बल, पक्ष, कर्ण, सुतङ्गम, प्रगदिन्, वराह, कुमुद एतेषा सप्तदशानान्द्वन्द्वः । एते आदयः येषामिति बहुव्रीहेः पञ्चमीबहुवचनम् । यथासङ्खयावगमाय कुमुदशब्दयोरेकशेषो न कृतः । प्रगदिन्शब्दे नलोपाभावस्तु इकारान्तत्वभ्रमनिरासाय । द्वन्द्वान्ते श्रूयमाणस्य आदिशब्दस्य अरीहणादिषु प्रत्येकमन्वयः । तथाच अरीहणादिभ्यो वुञ्, कृशाश्वादिभ्यः छण् इत्येव सप्तदश वाक्यानि सम्पन्नानि । तदाह । सप्तदशभ्य इति ॥ अरीहणाद्यादिसप्तदशभ्यो गणेभ्यः वुञ्जादयः प्रत्ययाः क्रमात्स्युरित्यर्थः । चतुरर्थ्यामिति ॥ तदस्मिन्नस्तीति देशे तन्नान्नि । 'तेन निवृत्तम्, तस्य निवासः, अदूरभवश्च' इति चतुर्ष्वर्थेषु प्रथमोच्चारितात्तद्विभक्त्यन्तात् यथा योगम्प्रत्ययाः इति फलितम् । एतेषु गणेषु चेतनवाचका अचतनवाचकाश्च सन्ति । तत्र यथा योगश्चतुरर्थाः अन्वयः प्रेक्षीति ॥ प्रेक्षते इति प्रेक्षः, तेन निर्तृत्तमित्यर्थः । प्रेक्षया निवृत्तमिति अन्वयः । वा। पथः पन्थच इति । प्रेक्षादिगणसूत्रमिदम्। पान्थायन इति ॥ पथः अदूरभव इत्यर्थः ।