तत्र स्युरङ्गविक्षेपश्चासायासक्रियादयः ।
विषादः
विषादः कथ्यतेऽस्माभिस्सत्त्वस्यैवेह संक्षयः ॥ ५२ ॥
प्रारब्धवस्तुभङ्गादेरुत्पत्तिस्तस्य दृश्यते ।
निश्वासोच्छ्वासहृत्तापसहायान्वेषणादयः ॥ ५३ ॥
औत्सुक्यम्
कालाक्षमत्वमौत्सुक्यं कथ्यते कविपुङ्गवैः ।
हृद्यवस्तु सुहृद्योगरत्यास्थाभिस्तदुद्भवः ॥ ५४ ॥
तत्रोच्छवासत्वरात्रासहृत्तापस्वेदविभ्रमाः ।
विभ्रमः
विभ्रमः कथ्यते श्लाघ्यैरात्मश्लाघाक्रमोदयः ॥ ।।५५॥
हृद्यकालकलाक्रान्तकलापैरुपजायते ।
तत्रानुभावा रोमाञ्चस्वेदमन्दस्मितादयः ॥ ५६ ॥
अपस्मार:
भूतप्रेतपिशाचानामपस्मारोऽधिरोहणम् ।
मन्त्रतन्त्रक्रियालापैस्सोऽपि सम्पद्यते नृणाम् ॥ ५७ ॥
भ्रूपादकम्पस्वेदादौ लालाफेनोद्भ्रमादयः।
अवहित्थम्
काले मनस्संवरणमविहत्थं विदुर्बुधाः ॥ ५८ ॥
लज्जादिविक्रियाहेतुस्तत्समुत्पत्तिकर्मणः ।
तत्र साचीनवक्तूत्वमितजापविहस्तता ॥ ५९ ॥
पृष्ठम्:साहित्यसारः.pdf/56
पुटमेतत् सुपुष्टितम्
४७
पञ्चम:प्रकाश: