अधिक्षेपप्रमादाद्वा रोषाद्वा जायते च सः ।
अत्र स्वेदाग्निचलनताडनग्रहणादयः ॥ ४४ ।।
उग्रता
चण्डतैवहि सर्वेषामुग्रता विदुषां मता ।
दुष्टापवाददौर्मुख्यचौर्यात्सञ्जायते परम् ॥ ४५ ॥
अत्र स्वेदशिरःकम्पतर्जनीताडनादयः ।
स्मय:
स्मयस्सर्वजनोन्मादी गर्व एवेह कथ्यते ॥ ४६ ॥
ऐश्वर्यबललावण्यरूपेभ्यस्तत्समुद्भवः ।
अत्रावज्ञाविलासाङ्गविभाषालटहादयः ।। ४७ ।।
जडता
प्रतिपत्तेरभावेन स्तब्धता जडता मता ।
सा समुत्पद्यते लोके दायेतालोकनादिभि ।। ४८ ।।
अस्यामपि भवेत्सद्यस्त्वनिमेषनिरीक्षणम् ।
मरणम्
प्रसिद्धमपि क्क्तव्यं मरणं भूतपञ्चता ।। ४९ ।।
विरहव्याधिदुष्कर्मविधिभ्यस्तस्य संभवः ।
जनताशोकविण्मूत्रस्तम्भनिश्चेष्टतादयः ।। ५० ।।
स्वप्नम्
संमीलनं हेि चित्तस्य निद्रेति परिगीयते ।
दुःखातिरेकवैक्लव्यमन:स्वेदादिभिर्भवेत् ॥ ५१ ॥
पृष्ठम्:साहित्यसारः.pdf/55
पुटमेतत् सुपुष्टितम्
४६
साहित्यसारे