पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

‘वीहिभिर्यजेत' ‘सोमन यजेत'त्यादिकारकमुदाहृत्य विचार्य्यते अ- नुवादमात्रमुन विधिरिति, तत्राविषमादिस्वरूपं विधीयेत, विषमादि- निवृत्तिर्वा,स्वरूपं तावत् न विधातव्यं प्राप्तवात् । विषमादिनिवृत्ति- विधौ परिसंख्याप्रसङ्गः, साच त्रिदोषा, तन्न प्रकारान्तरं विधेरुप- लमहे येनैतत्परिसङ्ख्यादोषमनासाद्यैव विधित्वं लभेरन् । तस्माद- नुवाद इति प्राप्त नियमेन नहि प्राप्तिर्ऋत्विजादीनामतो यस्मिन्पक्षे न ऋत्विजादीनां प्राप्तिस्तस्मिन्पक्षे विधिर्भवेत् । अतो नानुवादत्वम् । परिसङ्ख्या च न भवेत् । अप्राप्तपक्षसद्भावात् । नियमार्थो विधिः। परिमङ्ख्या त्वार्थिकीति सिद्धान्तितम् । तथाच दुक्तरीत्या पूर्वपक्ष एवं प्रबलः स्पातथा सति तत्सिद्धानतो भज्ये तेति भावः ।।

 किञ्च पयोव्रतं ब्राह्मणस्येत्यादावपि पयोमिलितान्नादिभक्षणा: दिकमपि शास्त्रार्थः स्यात् ।

 अथ गुणोपसंहारन्यायेनाकाशवाय्वरुपसंहारावश्यकत्वे तासा- मित्यत्र पञ्चानमिव ग्रहणप्रसङ्गेन तेषांचे त्रिवृत्करणासम्भवेन त्रिवृ- त्त्वमित्यादेः पञ्चीकरणे एव तात्पर्यमवश्यमभ्युपेयम् । अत्रोच्यते पञ्चीकरणप्रकारचेत्थं–पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्य- ततश्चैकैकमर्द्धं चतुर्द्धा विभज्यते, तेषां चतुर्णां भागानां स्वेतरेषु भागेषु योजनमिति ।

 त्रिवृत्करणे त्रीणि भूतानि द्विधा विभज्य ततः प्रतिभूतमेकै- कार्द्धं द्विधा विभज्य तयोर्भागयोः स्वेतरभागद्वये योजनमिति । एतादृशत्रिवृत्करणासम्भवेन पञ्चीकरणाभ्युपगमे विनिगमनावि- रहेण षडादिकरणापत्तिः । तत्करणप्रकारश्चेत्थं । एकैकं षोढा- विभज्यांशद्वयतिरिक्तानामितरांशानां स्वस्वातिरिक्तांशेषु यो- जनात् एकैकस्य षड् विभागा भवन्तीत्येवंरीयाऽग्रेऽपि बोध्यम् । नच लाघवं विनिगमकं कणभक्षाद्यभ्युपगतत्रिद्व्यणुवत् । स्वस्व- जातीयैरेव पश्चानां त्रिवृत्करणापत्तेः । विजातीयानां मेलने गौ-