पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
सर्गक्रमनिरूपणम् ।

च्चयनिषेधकन्यायविरोधापत्तेश्च ।

 तथाहि 'तुल्यार्थास्तु विकल्पेरन्समुञ्चये ह्यावृत्तिः स्यात्प्रधान स्ये'त्यत्र ब्रीहिभिर्यजेतेल्त्यादिष्वपि सम्मुच्चयो मिश्रणं विकल्पो वा स्यादिति विमर्शे सर्वांगापमहारिप्रयोगवचनानुग्रहाय प्राप्तपरित्या- गोऽप्राप्तस्वीकारः प्राप्तप्रामाण्यत्यागोऽप्राप्ताप्रामाण्यकल्पनमितिदो- पचतुष्टयं प्रथमत्यागपक्षे, द्वितीयत्यागपक्ष च स्वीकृतपरित्यागः त्य- क्तस्वीकारः । स्वीकृताप्रामाण्यत्यागः अस्वीकृताप्रामाण्यकल्पनम् इत्यष्टदोषनिदानविकल्पपरिहाराय च समुच्चयः स्यात् सम्भवति च ज्योतिष्टोमवदभ्यासमाश्रित्य समुच्चयसंपादनं, मिश्रैर्वेज्यता- मिति प्राप्ते 'एकाथाना'मेकस्मिन्नुपकारेऽन्योन्यानिरपेक्षया विनि- युक्तानां विकल्पः स्यात् ।।

 ज्योतिष्टोमे हि ऐद्रावायवं गृह्णाति मैत्रावरुणं गृह्णाती- त्यादिविहितदेवतासंयोगानामदृष्टार्थानामपर्यायविधानात् प्रकरणेना युगपद्ग्रहणात् सर्वसम्पादनाय युक्तं यदभ्यस्यते । ब्रीहियवौ तु द्वाभ्यां वाक्याभ्यामन्योन्यनिरपेक्षौ यागद्रव्यपुरोडाशप्रकृतितया विधीयमानौ तद्वारेण प्रयोगवचनो गृह्णन्पर्यायेणैव गृह्णाति, न यु- गपत् येन बलात्प्रधानाभ्यासः स्यात् ज्योतिष्टोमवत् । मिश्रत्वमपि निरपेक्षविधानादयुक्तमेव समुच्चित्य यजतापि वाक्यद्वयमपि बा- धितं स्यात् । द्वाभ्यामपि वाक्याभ्यां द्वयोरपि निरपेक्षयोः प्रकृति त्वेन विधानात्तद्वलेन द्रव्यान्तरनिवृत्तिप्रतीतेस्तस्माद्विकल्पः । ततो व्रीहियवपयोग तैरेव कार्य सिद्धेर्यवानामनुपादानमिति सिद्धान्ततम् ।

 तथाच समुच्चये मिश्रणे वा यवानां तत्र सत्वात्तदुक्तरीत्या पूर्वपक्ष एवं प्रबलः स्यात्तथासति तत्सिद्धान्तो भज्येतति भावः ।

 द्वितीयपक्षे चतुर्थकनियमन्यायविरोधापत्तेः । तथाहि । 'कर्त्तृ. देशकालानामचोदनं प्रयोगे नित्यसमचाया'दित्यत्र ‘दशपूर्णमास- यश्चत्वार ऋत्विजः ‘समे यजेत' पौर्णमास्यां पौर्णमास्या यजेत’