पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

"भेदानाम्” इति । भैदानाम् विशेषाणां महदादी- ना भूतान्तानां कार्याणां कारणं मूलकारणमस्त्यव्यक्तम् । कुतः ? 'कारणकार्यविभागादविभागाद्वैश्व्रूप्यस्य" । कारणे सत् कार्यमिति स्थितम् । तथा च यथा कूर्मश: रीरे सन्त्येवाङ्गानि निःसरन्ति विभज्यन्ते--'इदं कूर्म- शरीर, एतान्येतस्याङ्गानि' इति । एवं निविशयानानि तस्मिन् अव्यक्तीभवन्ति । एवं कारणान्मृत्पिण्डाद्धेम- पिण्डद्वा कार्याणि घटमुकुटादीनि सन्त्येवाविर्भवन्ति विभज्यन्ते । सन्त्येव प्रथिव्यादीनि कारणात्तन्मात्रादा- चिर्भवन्ति विभज्यन्ते, सन्त्येव च तन्मात्राण्यहङ्कारात् कारणातु, सन्नेवाहङ्कारः कारणान्महतः, सन्नेव च महान् परमाव्यक्तात् । सोऽयं कारणात् परमाव्यक्तात् सा- क्षात् पारपर्येणान्वितस्य विश्वस्य कार्यस्य विभागः ।

 प्रतिसर्गे तु मृतपण्डे सुवर्ण पिण्डं वा घटमुकुटायो विशन्तो ऽव्यक्तीभवन्ति । तत्कारणरूपमेवानभिव्यक्तं




विशवाणामिति ।। 'महदाद्यं विशेषान्तं प्रसूतेऽखिलं जगदित्या- दौ विशेषपदस्य भूतपरत्वेन महदादिग्रहणं नस्यादन आह-मह- दादीनामिति ।। वक्ष्यमाणानुमाने सिद्धसाधनतावारणायाह । अव्यक्तमिति । अव्यक्तपदार्थस्यातीन्द्रियस्य रूपादिविहीनस्य वा कारणत्वादर्शनेन दृष्टान्तासिद्धिरतो आयपाठक्रमं परित्यज्या- व्यक्तपदार्थघटिताग्रिमतनहेतुद्वयं व्याचष्टे-कारणेत्यादि । वि- विभागाविभागपदार्थं व्युत्पादायितुं दृष्टान्तमाह-तथा चेति । दार्ष्टान्तिके योजयति-एवमिति

 विभागपदार्थमुक्त्वाऽविभागपदार्थमाह-प्रतिसति ।। प्र- निसर्गः प्रलयः ॥ कुटमुकुटादीनां कथमव्यक्तकारणकत्वं तत्कार- णानां मृद्धेमपिण्डानां व्यत्वत्वादित्यत आह--तत्कारणरूप-