पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
अव्यक्तसिद्धिः ।



 भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च ।
 कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥


 कारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च ।
 परिणामतः सलिलवत् प्रतिप्रातगुणाश्रयविशेषात् ॥१६॥




ऽनुमानासम्भवश्चेत्यर्थः । कर्तृत्वभोक्तृत्वयोर्विशेषानुपपत्या प्रधानं कर्तैव पुरुषः भोक्तैवेति विभागानुपपत्तिः ॥

 न च पुरुषस्य चिद्रूपेणैव परिणामान्न रूपान्तरापत्तिः अशु- छ्यादिकं वा । प्रधानस्य तु तत्वान्तराकारेण परिणामात् पूर्वरूपप- रित्यागाञ्चाशुद्ध्यादिकं स्यादिति विशेष इति वाच्यम् । परिणाम- स्यागन्तुकत्वपक्षेऽनित्यत्वादिदोषापत्याऽर्थतो विशेषाभावात् । अ- नागन्तुकत्वपक्षे तु भोगस्य कर्मजन्यवासम्भवेन कदाचित्कत्वा- नुपपत्तेः ।्

 न च सत्वगुणपरिणामरूपभोगवति चेतसि चेतनस्य पुरुष- स्य प्रतिबिम्बितत्वे भोक्तृत्वं तच्च ने प्रधानस्येति वाच्यम् । चेतसि प्रतिबिम्बितत्वेन पुरुषे विशेषाङ्गीकारे ऽनित्यत्वादिदोषानिवृत्तेः । अनङ्गीकारे तु तादृशकल्पनानर्थक्यात् । पुरुषस्य सदा निर्विशेष- त्वेन किञ्चिद्दोषापनयासम्भवेन स्वीयशास्त्रप्रणयनवैयर्थ्यांपत्तेश्च ।

 न चाविद्ययाऽध्यारोपितानथापनयार्थं शास्त्रप्रणयनमिति वाच्यम् । पुरुषो भोक्तैव न कर्ता प्रधानं कर्वेव न भोक्तु परमार्थ- सद्वस्त्वन्तर पुरुषाश्चेति स्वयमतपरियागपत्तेरिति ।।

 ननु भेदानां परस्परान्योन्याभावानां स्वमते ऽधिकरणात्म- कतया प्रधानपुरुषयोरपि महदादिभेदसत्वेन तयोरपि भेदपदेन ग्रहणापत्तिः । तथाच भेदानां कारणमस्त्यव्यक्तमिति प्रतिज्ञायां पक्षैः कदेशे बाधः । परिमितत्वरूपपरिमाणादिहेतोरसिद्धिचैत्यत आह ।