पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्वाषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्न- एवाङ्गभूतेषु पशुष्वन्वारम्भणीयां प्रतिषेधति सवनीयमात्रे चान्वाधानप्रतिषेधात्प्रायणी यादिष्वग्नीषोमीयानूबन्ध्ययोश्चानुजानाति । अत एव निरूढेऽपि धारयत्याहवनीयमित्य- न्वारम्मणीयानन्तरमुक्त्वाऽनोनन्वादधातीत्याह । ततो ज्ञायत आरम्भे सिद्धेऽपि मान्वाधान सिध्यतीति । तस्माद्दीक्षणीयया प्रधानदेवतानामेव परिग्रह इति सिद्धम् । ननु सवनीये पशौ सवनीयेषु च पुरोडाशेषु नाग्न्यन्वाधान विद्यत इति प्रतिषेधादेवेतर. प्रान्वाधानसिद्धौ पुनर्षिधानं परमतप्रतिषिद्धान्वाधानस्य पुनः प्राप्त्यर्थ यथा कृतं तथा दीक्षणीयायामपि परमतप्रतिषिद्धान्वाधानस्य पुनःप्राप्त्यर्थ कुतो न कृतमिति चेन्न । दीक्षणीयायां तद्विरहेऽपि तसिद्धेः । कथमिति चेत् । उच्यते-दीक्षणीयायां जातायां सत्यामेव तस्या देवतापरिग्राहकत्वम् । तस्याश्च ग्रहणार्थ च पूर्वमिष्टेस्तदर्थत्वादिति जैमिनिमते दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनमारण्यानं जागरण: मन्याहार्यस्य च दानं पत्न्याश्च सनहनं विमोचनमिति न विद्यन्त इति आपस्तम्बमते प्रायायायास्तन्त्रं प्रक्रमयति तत्रैवानि न क्रियन्तेऽन्यन्वाधानं ब्रतोपायनं पत्नीस- नहनमन्वाहार्य इति ये के च सोम इष्टिपशुबन्धाः सर्वेष्वेवैतानि न कियन्त इति भारद्वाजमते च साङ्गप्रधानदेवतापरिग्रहार्थत्वं तत्पष्टतया खण्डयितुं तत्र तत्रान्वाधान- विधानम् । अन्यथा सवनीये पशौ सवनीयेषु च पुरोडाशेषु नान्यन्वाधान विद्यत इत्यनेनैव सिद्धेस्तत्र तत्र विधानमपार्थक स्यात् । अनिष्पन्नाया दीक्षणीयायाः स्वीय- देवतापरिग्रहे सामर्थ्याभावात् । अङ्गदेवतानामपि परिग्रहार्था दीक्षणीयेति वदताऽऽप. स्तम्बनाप्यन्यन्वाधानं दीक्षणीयादेवतापरिग्रहार्थमवश्यमशीकरणीयमेव । एवं च परमत- स्यापि स्वतुल्यत्वसाधनेन भगवताऽऽचार्येण दूषितप्रायत्वात्तन्मतखण्डनार्थान्वाधान- विधानक्लेशो न कृतः। प्रायणीयाया अपूर्वत्वपक्षेऽन्नाधानस्याप्यपूर्व विधानं तत्रेति द्रष्टव्य. मिति सुस्थम् । ग्रहणार्थ च पूर्वमिष्टेस्तदर्थत्वादित्युदाहृतजैमिनिसूत्रार्थस्तु पूर्वमन्वा- धानं ग्रहणार्थमपि निवर्तेत, इष्टदक्षिणीयाया अपि तदर्थत्वादन्वाधानार्थत्वादिति । इत्योकोपाहश्रीमदमिष्टोमसाहस्राग्निचयनसहितवाजपेयसर्वतोमुखद्विषाह- खाग्निचयनसहितपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथदीक्षित. विरचितावां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसूत्राम्बुधिगतनि- गूढार्थरत्नालाभकृतविद्वज्जनसंतापशामिकायां ज्योत्स्ना- ख्यायां वृत्तौ सप्तमप्रश्नस्य प्रथमः पटलः ॥ १ ॥ ख,ग,पिनि कि'। ख. ग.