सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६१३ ध्याये सप्तमपादे औमिनिमा दीक्षादक्षिण तु वचनाप्रधानस्येति सूत्रेणेति । न च दीक्षा सोमस्येति श्रुतेदीक्षायाः प्रधानमात्रार्थत्वेऽपि तज्जनकीभूतदीक्षणीयाया भार्यवादिकदे. यतापदस्य प्रधानदेवतामात्रपरत्वे प्रमाणामावेनाप्रधानसाधारणदेवतापरिग्रहार्थस्वम- स्त्विति वाच्यम् । दीक्षा सोमस्येति श्रुत्या दीक्षायाः प्रधानमात्रार्थवे सिद्धे तज्जमको- मूताया दीक्षणीयाया अपि प्रधानमात्रपरत्वस्यार्थतः सिद्धिमिद्धिावि)व प्रधानदेवतामात्र. परत्वसिद्धावेतस्या एवं श्रुतेः प्रमाणत्वेनाङ्गदेवतापरिग्रहस्पासिद्धत्वेन तदर्थं तत्तदिष्टि- पशुष अन्यन्वाधानविधानस्यात्यन्तं युक्तत्वात् । नैमिनिसूत्रार्थस्तु दीक्षा च दक्षिणा चानयोः समाहारो दीक्षादक्षिणम् । गवाश्वप्रभृतीनि चेत्यनेन समाहारद्वंद्वः । दीक्षा च दक्षिणा च दीक्षा सोमस्व दक्षिणा सोमस्येतिवचनात्प्रधानस्य स्यातामिति । अमीषोमीय. विकारेऽतिदेशानतिदेशरूपमेतत्प्रयोजनम् । विस्तरस्त्वाकरे द्रष्टव्यः । याज्यानुवाक्ये मपि प्रधानदेवतापरिग्रहमेव वदतः । तत्राग्निश्च विष्णो तप इति याम्यायां विश्वर्य- ज्ञियः संविदानी दीक्षामस्मै यजमानाय धत्तमिति पठयते । तत्र विश्वदेवशब्दस्य आदित्यविश्ववसवस्तुषितामास्वरानिलाः । महारानिकसाध्याश्च रुद्राश्च गणदेवताः ॥ इतिकोशागणविशेषरूढत्वावगतौ तत्र वसूनां प्रातःसवनदेवताभूतानां रुद्राणां माध्यंदिनसवनदेवताभूतानामादित्यानां विश्वेषां देवानां च तृतीयसवनभूतानां चैत्र प्रकृते गणदेवतात्वेन तेषामेव प्रकृते प्रधानदेवतात्वमवगम्यते । एतादृशदेवतापरिग्रह- मेव याज्या वदति । दीक्षापालशब्देन सर्वाः सोमेज्यदेवता इन्दादयोऽपि गृह्यन्ते । स्वानुकूलस्य भृत्यस्य यथा स्वास्येव पालकस्तथा सुस्यादेवतानामेव मुख्यत्वेन स्वामि. त्वात्स्वानुकूलदीक्षापालकत्वम् । विश्वैर्देवैर्युक्तावस्मै यजमानाय दीक्षां धत्तमिति । दीक्षा च प्रधानार्थी । अतो देवताः प्रधानार्थी एव दीक्षासंपाद(दि)काः । तथाऽग्निर प्रथमो देवतानामितिपुरोनुवाक्यागतदेवताशब्दोऽपि प्रधानदेवतापर एव याज्यानुरो- धात् । एतेनावमपदं यया निकृष्टार्थक तथा प्राथम्यार्थकमपि । तथा परमपदापरपर्यो- यमुत्तमपदमुत्कृष्टाक सच्चरमार्थकमपि । तथाचाग्निरने प्रथमो देवतानां संयातानामुत्तमो विष्णुरासीदिति सर्वदेवताप्रथम चरमभूतयोरग्नाविष्ण्वोहणे प्रत्याहारन्यायेन मध्यम- स्थानां प्रधानदेवतानामिवाङ्गदेवतानामपि ग्रमितीयमपि शङ्का निरस्ता भवति । तथाच प्रधानार्थया दीक्षणीययाऽनिविष्णुयागद्वारेण प्रधानदेवतापरिग्रह एवं युक्तो नतु साङ्गप्रधानां परिग्रहः । यतो वदिष्यति प्रायणीयादिषु पुनर्देवतापरिग्रहार्थ- मन्वाधाने चोदकप्राप्तेऽपि अन्यन्वाधानं यत्परैः प्रतिषिद्धं तदेव पुनर्विहितम् । ननु अत्राप्यमिः सर्वा देवता इति देवतारूपाग्नेरारम्मेण साङ्गप्रधानार्थेन साङ्गप्रधानदेवता- परिग्रह सिद्धौ कयमग्न्यन्वाधानं विहितमिति चेत् , सत्यम् । देवतारूपामेरारम्मेण देवतारम्भमात्रस्यैव सिद्धेर्नत्ववाधानस्य तस्य शबान्तरत्वेन कर्मान्तरत्वात् । अस