सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १५० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५९५ अथास्मै त्रिवलि पञ्चवलिं वा कृष्णविषाणां प्रदक्षिणावर्ता प्रयच्छतीति । शाण्या रज्ज्वा परितृष्णेति बौधायनः । मा मा हि सीरित्यन्तो मन्त्रः । कृष्य त्वा सुप्तस्याया इति वानमानसूत्रे दीक्षामन्त्रसंदर्भपठितोत्तरमन्त्रादिदर्शनबलात् । इदं च कृष्णविषाणा- प्रदान यजमानस्य शिरसो वेष्टनोत्तरमेव । याजमानसूत्रे प्रत्तया कृष्णविषाणयेत्युक्त्या कृष्णविषाणाप्रदानकृष्णविषाणाकरणकलोष्टोद्धननादिरूपकर्मणोः कार्यकारणभावापन्न- योरव्यवधानस्य सूत्रकृता दर्शयिष्यमाणत्वात् । पल्यै कण्डूयनार्थ शकुयः । बौधायनेनोक्तत्वात् । तत्र शङ्कुस्वरूप कात्यायन आह-पृथुमुखो यज्ञियवृक्ष. शरिति ।

पत्न्याः शिरसि जालं यथा सुष्ठु कल्पयति ।। २ ।।

पत्न्याः शिरसि यज्जालं प्रतिमुक्तं तदत्र यथा मुटु यथा दृढ भवति तथा कल्प- यति । यथा पत्न्याः शिरसो न पतति तथा गुल्फपति दादन तस्याः शिरसि विद- लेन सह योजयतीत्यर्थः । एतेन पूर्वत्र प्रतिमोचनमात्रं कर्तव्यमिति सिद्धं भवति ।

औदुम्बरो दीक्षितदण्डो यो वा कश्चन वृक्षः फलग्रहिस्तस्य ।

औदुम्बर उदुम्बरवृक्षनो दीक्षितस्य दण्डः । यो वा कश्चन वृक्षः फलपहिः । यज्ञिय इत्यापस्तम्बोक्तयक्षियवृक्षलाभे स एव मुख्यः । तदलामे यज्ञियव्यतिरिक्तोऽपि । आचार्येण सामान्यतो यो वा कश्चनेत्युक्तेः । फलं गृह्णाति न रन्ध्यो बालो ।। अथवा य उदुम्बरादिवत्फलमेव गृह्णाति न पुष्पमपीत्यर्थः । तस्य फलाहक्षस्य । तत्प्रमाणमाह-

मुष्टिमात्रो मुखेन संमितश्चुबुकदघ्नो वा ।

दीक्षितदण्ड इत्यनुषज्यते । मुष्टिमात्रो मुष्टिप्रमाणः । प्रमाणे द्वयसन्दधमात्रच इत्यनेम मात्रच्पत्वयः । अनेन दीक्षितदण्डस्य परिणाह उच्यते । मुखेन समित ऊोष्ठपर्यन्तं मुखं तेन संमितस्तत्प्रमाणः । मुखदघ्न इति परित्यज्य मुखेन संमित इत्येतादृशं वचनं श्रुत्यनुकरणाय । चत्रुकं हनुस्तत्प्रमाणश्चचुकदमः । प्रमाणे यसज्द- ननिति दनच्यत्ययः । एकपदार्थविषयकतिर्यगूर्ध्वप्रमाणयोर्युगपदुपस्थितौ तिर्यकप्रमाणे मात्रच , अर्ध्वप्रमाणे दनजित्याचार्यस्य प्रायशः शैली ।

ऊर्ध्वसूरसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहीति तं यजमानाय प्रदाय संभारयजूꣳषि वाचयति जुहोति चैतैर्मन्त्रैः ।

तं दण्डम् । तच्छब्दः पूर्वमेवोपकल्पनं दण्डात्य सूचयति । यजमानग्रहणं पत्नी- च्यावृत्त्यर्थम् । न च मन्त्रगतं यजमानपदं पत्नीव्यावर्तकं भवितुमर्हति । तत्र समन्त्रः कत्वपक्षेऽपि यजमानाय धेहीत्यूहेन यनमानपदलोपेन वा पत्न्या अपि दण्डदानप्रवृत्ति-