सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रभे- चन्दसेने महीपाले राज्ञि राज्य प्रशासति । ववौ प्रदक्षिणो वायुः प्रजा आसन्प्रदक्षिणाः ॥ आसन्सदाऽपि सामन्ता यस्य सर्वे प्रदक्षिणाः। इत्यत्र प्रदक्षिणशब्दस्याऽऽनुकूल्यार्थकत्वदर्शनात् । तेन दृढं शिथिलं वां यजमानानुकूल्येन परिव्ययणमिति सिद्ध भवति । मा मा हिसीरित्यन्तः प्रथमो मन्त्रः । निष्टक्य शिखाबन्धनवत् । दक्षिणतो नाभः परिकर्षति उत्तरप्रदेशादानीय नामर्दक्षिणतो ग्रन्थि निदधाति यथा नान्यदेशं गच्छतीत्यर्थः । मेखलया परिव्ययणे क्रियमाणे यजमानो यं पुरुषं द्विष्यातं ध्यायेत् । यजमानद्वेष्यं ध्यायेदिति स्पष्टोऽर्थः । ध्यानेन द्वेष्यस्यानिष्टं भवति । परिकर्षणसमये वा द्वेष्यस्य ध्यानम् । द्वेष्यः शत्रुः पाप्मा च । प्रधिकरणपरिकर्षणे दर्शपूर्णमासवदित्येतावतैव सिद्ध उभयोः क्रिययोः पुनर्विधानं व्यर्थ मज्ज्ञापयति शाखान्तरेऽत्रापि मन्त्रयोस्तयोः क्रिययोश्च पाठ एवा- स्तीति । फलं तु ज्ञानावश्यकतासिद्धिः । ज्ञानामावे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति दक्षिणाग्नौ ।

सं त्वा नह्यामीति पत्नीꣳ संनह्यति यथा दर्शपूर्णमासयोः ।

आशासानेति मनं बाधित्वा सं त्वा नह्यामीति तस्य स्थाने मन्त्रोऽयं विधीयते । वानमस्मे इत्यन्तो मन्त्रः । पत्नीग्रहणं यजमानव्यावृत्त्यर्थम् । अध्वर्युकर्तृकमेव संन. हनम् । स्वेति लिङ्गात् । संनयति बध्नाति । यथा दर्शपूर्णमासयोरित्यनेन सनहनकर- णत्वेन योक्त्रस्योयजुरासीना तिष्ठन्ती वेत्यस्य पूषा त इति प्रन्थिकरणस्य स ते मा स्थादिति परिकर्षणस्य प प्राप्तिः । सोमाय योक्त्रमावभूधाद्धार्यम् । तस्य प्रसकोडो पक्ष्यते ।

इन्द्रस्य योनिरसीति त्रिवलिं पञ्चवलिं वा कृष्णविषाणां यजमानाय प्रयच्छत्याबध्नाति वा ।

तिस्रो बलयो यस्याः सा त्रिवलिः । पञ्च वलयो यस्याः सा पञ्चवलिः | वलयः कृष्णवृषाणागता उच्चप्रदेशाः । कृष्णविषाणा कृष्णमृगशृङ्गम् । सकलैवैषा स्थादित्यौ. पमन्यव इति द्वैधसूत्रात्कृत्स्नैव मुख्या। तदभावे छिन्ना । पञ्चवलितोऽधिकवलिकाया लामे पञ्चवलितोऽधिकां वलि छित्त्वैव ग्राह्या । तस्या एव ग्राह्यत्वोक्तेः । तत्राप्यग्रभाग एव ग्राह्यः । तस्यैव कण्ड्यपनयनसाधनत्वात् । यजमानग्रहणं पत्नीव्यावृत्त्यर्थम् । प्रयच्छति बध्नाति वा । दानपक्षे हस्ते दानम् । आमहणं बन्धने विशेष द्योतयति । तं चाऽऽह कात्यायनः-वसनस्य दशायां बध्नीतेति । बौधायन:-वसनस्यान्सि. मायां दशायां बद्धा तयाऽन्तर्वेदि लोष्टमुद्धन्तीति । कृष्णविषाणायां विशेषमाहाss. पस्तम्बः-त्रिवलिः पञ्चवलि दक्षिणावृद्भवति सव्यावृदित्येक इति । मरद्वानोऽपि