सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 सत्याषाढविरचितं श्रीतसूत्र- : [ (मष्टमप्री-

आयुः स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राणः स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तं चक्षुः स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये धत्तꣳ श्रोत्रꣳ स्थः श्रोत्रं मे धत्तꣳ श्रोत्रं यज्ञाय धत्तꣳ श्रोत्रं यज्ञपतये धत्तं तौ देवौ शुक्रामन्थिनौ कल्पयतं देवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यभिमन्त्रयेते ।

तो देवो शुक्रामन्धिनावितिलिजाग्रहयोरेवाभिमश्रणं नारन्योः । तेनारलिसंधा- नेऽप्यभिमन्नणं ग्रहयोरेव ।

प्रोक्षितौ शकलावभ्याधत्तः शुक्रस्याधिष्ठानमसि शुक्रैषा ते समित्तया समिध्यस्वेत्यध्वर्युर्मन्धिनोऽधिष्ठानमसि मन्थिन्नेषा ते समित्तया समिध्यस्वेति प्रतिप्रस्थाता।

जुहोतिचोदनाभावानात्र स्वाहाकारत्यागौ । मन्त्रे समिच्छन्द इन्धनमात्रवाची तेया त्वमग्ने समिधा समिध्यप्त इति मन्प्रगत समिच्छन्दवत् । तथा च नोहो न मन्त्रलोपः । शकलाभ्याधानमत्रयोः शुत्रस्य समिदसि मन्धिनः समिदसीतिबाह्मणो. क्तमन्त्राभ्यां विकल्पते ।

निरस्तः शण्डो निरस्तो मर्कोऽपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्म इत्यप्रोक्षितौ बहिर्वेदि निरस्यतोऽप उपस्पृश्य ।

निरस्तः शण्डः, निरस्तो मः, अनुत्तौ शण्डामकौं सहामुनेतिब्राह्मणोकेन विकल्पते । ब्राह्मणोक्तमत्रेऽमुनेत्यस्य स्थाने तृतीयान्त द्वेष्यनाम्नो ग्रहणम् । वेदे. महावदेहिरिति बहिदि उत्तरस्यां दिशि अप्रोतितौ शकली निरस्यतः । अप उपस्पृश्येत्यनन्तरं तिष्ठत इत्यध्याहार्यम् । अथनोपस्पृश्येत्यनेनापूर्वमन्यदुपस्पर्शन विधीयते । छेदनभेदननिरासात्मामिमर्शनेष्वप उपस्पृशेदितिस्मृतितः सिद्धभेवोपस्पर्श- नम् । इदं तु निरसननिमितकमत्र विधीयते । तेनावोरेक स्मृतिसिद्धं कर्माङ्गत्वे- नान्पदिति । तथा च समानकर्तृकत्वानुपपत्तिरपि परिहता भवति । आ उपस्पृश्य । ख. सानिया । २ ख, यया । ग. त्वया।