सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः ] गोपीनाथभट्टकृतज्योत्वाव्याख्यासमेतम् ।

सप्तदश सामिधेन्यः।

स्पष्टोऽर्थः । याजुषहौत्रसत्त्वे याजुषरीत्या सप्तदश सामिधेन्यः । आश्वलायनहोत्र- सत्त आश्वलायनोक्तरीत्या । तत्राग्निर्मुखं प्रथमो देवतानामग्निश्च विष्णो तप उत्तम मह इत्याश्वलायनोये याज्यानुवाक्ये । अग्निरमे प्रथमो देवतानामभिश्च विष्णो तप उत्तम भह इति यानुष्यो याज्यानुवाक्ये ।

न यजमान भागमवद्यति सर्वेषु सौमिकेष्विष्टिपशुबन्धेषु ।

प्रायणीयायाः कृत्स्नत्वपक्षेऽपि यजमानमागावदाननिषेधं वारयितुमेव न यजमान- मागमवद्यति । यदि शंयुक्न्तति प्रायणीयायां वचनमेतस्मादेव जायते सर्वेषु सौमिके. विष्टिपशुबन्धेष्विति पूर्वत्राप्यन्वेतीति । तेनाखण्डेषु प्रायणीयाव्यतिरिक्तेविष्टिपशुब- न्धेषु यनमानभागावदाननिषेधः सिद्धो मवति । प्रणीताप्रणयनं भवत्येव । संयवनरूप- दृष्टकार्थसद्भावात्, अवभृथवन्निषेधाभावात्, यजुरुत्प्ताभिः संयोतीतिवचनाभावाच ।

नान्वाहार्यं ददाति।

सर्वेषु सौमिकेविष्टिपशुबन्धवियत्राप्यन्वेति । दानकर्ता यनमान एवं | द्रव्यप्र. कल्पनं यनमानस्य दक्षिणादानं ब्रह्मचर्य जपाश्चेति यानमानसूत्रात् । ददातीति यज. मानमित्याश्वलायनसूत्रात् । दानवाचनान्वारम्भवरवरणवतप्रमाणेषु यजमानं प्रतीयादिति कात्यायनसूत्राच । इष्टयश्च पशुबन्धाश्चेष्टिपशुबन्धाः सौमिक्यश्च सौमिकाश्च सौमिकाः सर्वाश्च सर्वे च सर्वे । पुमान्त्रियेत्यनेन सूत्रणैकशेष इटिपशुधन्धेष्विति पुंलिङ्गान्तविशे. व्यानुरोधासिद्ध एव । सर्वाः सौमिक्य इष्टयः सर्वे सौमिकाः पशुबन्धास्तेष्वन्याहार्य न ददातीत्यर्थः । प्रधानदक्षिणयैव प्रसङ्गसिद्धेरिति भावः । द्वादशाध्याये प्रथम पादे भृतत्वाच्च परिक्रय इति जैमिनिनाऽप्ययं न्यायोऽनेन सूत्रेणोक्तः । अन्यविधानादारण्य- मोजनं न स्यादुमयं हि वृत्त्यर्थमिति सूत्रान्नेति मण्डूकप्लुत्याऽनुवर्तते । सौमिक्यैव दक्षिणया कर्तृणां भूतत्वादानतत्वान्न पृथकपरिक्रयोऽन्वाहार्यदक्षिणेति सूत्रार्थः । पशु- बन्धेष्वन्वाहायस्य सर्वथैवामावेनार्थात्तद्दानामावे सिद्ध निषेधो ज्ञापयति अत्यन्ताना- व्यस्य पशुबन्धेष्वपि केवलमन्वाहार्य एव दक्षिणा तेनैव पशुबन्धोक्तदाक्षिणादानफल- सिद्धिारति । अन्वाहायग्रहणं पशुबन्यदक्षिणोपलक्षणम् । तेन तस्था अपि निषेधः । बहुवचनेनैव सोमतन्त्रान्तर्गतकृत्स्नेष्टिपशुबन्धलाभे सर्वग्रहणं सोमतबहिर्भूतान्द्राना- श्विनौ प्रायश्चित्तपशू अप्यन्तरा भवतस्तयोरपि दक्षिणा न भवतीतितापनार्थम् । उक्त पानीषोमी यस्य सवनीयस्य वोपालम्भ्यत्वमनयो वायनेन । एवं पाथिकृत्यादीनामपि सोमतन्त्रान्तःपातित्वे सति दक्षिणा नैव । यस्याऽऽश्विने शस्यमाने सूर्यो नाऽऽविर्भवति सौर्य बहुरूपमालमतेत्यस्य पशोस्तत्तम्प्रमुपनीन्यैव कर्तव्यतायामपि दक्षिणा न । अस्मि- न