पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. रे १ १०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ५७३ इति सूत्रात् । वाचस्पते हृद्विध इति ग्रह संज्ञको मन्त्रः । तेन सह यथा भवति तथा महाहवितेति सप्तहोतृसंज्ञक मन्त्रं मनसाऽन्द्रुत्योपयोर्मध्येऽनुच्छ्रसन्पठित्वा जुहोति- चोदितत्वात्स्वाहाकारमुक्त्वा दर्मिहोमधर्मेण जुहोति । सूत्रे साहमिति विशेषणं महस्यापि मनसा पाठार्थ नतु होमे ग्रहप्रापणार्थम् । तस्य तु तेषां ये होमार्थे श्रूयन्ते सग्रहाः सस्वाहाकारास्ते प्रयुज्येरन्नितिवक्ष्यमाणसूत्रेणैव सिद्धिः । मनसेति परिभाषा- प्राप्तोपांशुत्वव्यावृत्त्यर्थम् । दीक्षतेऽनयेति दीक्षणीया तामिष्टिं निर्वपति करोतीत्यर्थः । निर्वपतीत्यस्य निर्वापार्थकत्वं वक्तुम शक्यम् । इटिशब्दस्य क्रियाविशेषपरत्वेन निर्वा- पासंभवात् । इष्टिग्रहणमन्वाधानमन्त्रे देक्षणीयमेष्टर हविरिदमेषां मयीत्यैष्टशब्दप्रयोग- लाभार्थम् । अन्यथा देक्षणीय हविरिदमेषां मयीत्येतावदेव स्यात् । अत इष्टिग्रहणम् । दीक्षणीयामिष्टिं निर्वपतीति सामान्यप्रतिज्ञेयमेतस्पा इष्टेरिदं नामेति प्रदर्शयितुम् । तेनेदं सिद्धं भवति नामवतीनामिष्टोनामन्वाधानमन्त्रे नाम्नाऽपि निर्देशो नतु केवलमिष्टि । शब्देन निर्देश इति । तेन देक्षणीयमित्यप्युच्चार्यम् । प्रायणीयाप्रभृतिप्ववभूधान्तेष्वि- ष्टिपशुबन्धेषु व्रतोपायनं जागरणं पत्नीसनहनमारण्याश च न विद्यत इति सूत्रेण प्रायणीयाप्रभृतिषु व्रतोपायनादिनिषेधेन सतहोतृहोमानन्तरं दीक्षणीयेष्टिक्रियायां सोमा: रसिद्धत्वेन व्रतोपायनं परिस्तरणोत्तर जागरणाभाव संपादकनिद्रास्थानिकक्षणिकनेत्र- निमीलनाकरणं पत्नीसनहनं सत्यां क्षुधि आरण्याशनं च भवत्येव । दीक्षणीयायां द्रव्यदेवताकाक्षायामाह-

आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृतेचरुम् ।

अत्र हविर्भानीयादिति शेषः । अथवा तृतीयार्थे द्वितीया । आग्नावैष्णवेनैकादश. कपालेनाऽऽग्नावैष्णवेन मृतावस्थानिक्षिप्तघृतेन चरुणा वा दक्षिणीयामिटि निर्वपती. त्यन्वयः । तथाचायमर्थ:-एकादशकपालकरणकं चरुकरणकं वा यागं कुर्यादिति । आग्नावैष्णवमिति देवतार्थकाण्प्रत्ययेन देवता प्राप्यते । एकादशकपालशब्देन द्रव्यं प्राप्यते । एकादशम कपालेषु संस्कृतः पुरोडाश एकादशकपालः । घृतेचरुमित्यनेनै- कादशकपालस्थाने द्रव्यान्तरं विधीयते । घृतेचरुमित्यस्य शृतावस्थायां घृते निक्षिप्ते सति यः सिद्धश्वरुः स घृतेचरुरित्यर्थः । नतु घृते शतश्वरुरिति । केवलघृतस्य चरुश्र- पणानुकूलपाकप्ताधनस्वाभावात् । शते . नदीयसि घृतमिति बौधायनोऽप्याह । चरोः पाके नेदीयसि निकटे सति घृतं प्रक्षिपतीत्यर्थः । एकैनवाऽऽनावैष्णवग्रहणेन सिद्धे पुनर्पण नियमार्थम्-आग्नावैष्णव एव घृतेचरुनर्नाऽऽदित्य आपस्तम्त्रोक्तो घृते चरुभव- तीति । एतेन ज्ञायते पुरोडाशो ब्रह्मवर्चसकामस्य धृतेचरुः प्रजाकामस्य पशुकामस्य वेत्यापस्तम्बोक्तं पुरोडाशचर्वोः काम्यत्वमप्युपसंहार्यमिति । चरुत्वरूपं सारसंग्रहे- अनिर्गतोष्मा सुस्विन्नो ह्यदग्धोऽकठिनश्चरुः । न चातिशिथिलः पाच्यो नव वीतरसो भवेत् ॥ इति । - ४३