पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्ने- पत्त्यमावात् । प्रागंशप्रपादनोत्तरं दीक्षणीयेष्टिक्रियायामपि तदनन्तरमेव । दीक्षणी. येष्टीक्षाकर्तृसंस्कारार्थत्वात्प्रतिप्रयोगमावृत्तिः सिद्धा भवति । दीक्षणीयाया देवतापरि- ग्रहार्थत्वमपि, देवता एवोभयतः परिगृह्य यजमानोऽवरुन्ध इति श्रुतेः । तेन सर्वतोमुखे प्रतिविहारं सा भवति । न दीक्षणीयानं सप्तहोता किंतु दीक्षाङ्गम् । तेन दीक्षणीयो- स्कर्षे सप्तहोतु!त्कर्ष आहवनीयभेदश्व सप्तहोतृदीक्षणीययोरित्येतद्वयं सिद्धं भवति । क्त्वा- प्रत्ययेन तु पूर्वकालतामात्रम् । ततश्च सप्तहोत्रर्थमाहवनीयं गार्हपत्यात्प्रणीय सप्तहो. तारं हुत्वा सोमार्थमाहवनीयं प्रणीय दीक्षणीया कार्या । प्रतिबन्धकृतदीक्षणीयोत्क. पवशेन सप्त होतृहोमदीक्षणीयेष्टयोर्मध्ये होमप्राप्ती होमः कर्तव्य एव । सप्तहोतारं मन. साऽनुवृत्य सग्रह५ हुत्वा दीक्षणीयामिष्टिं निर्वपतीति क्त्वाप्रत्ययबोधितसप्तहोत होमाव्यहितानन्तर्य तु शिष्टाकोपन्यायेन बाध्यते । स च न्याय इत्थम्-आचा- म्तेन कर्तव्यमित्यादिस्मृतिविहिताचमनादेर्वेदं कृत्वा वेदि करोतीत्यादिविहितश्रौत. क्रमेण बाध इति प्राप्ते क्रमस्य पदार्थधर्मत्वात्तदपेक्षयाऽऽचमनादेः , पदार्थत्वेन प्रावल्यम् । प्रमाणबलाबलापेक्षया प्रमेयबलाबलमेव पूर्वोपस्थितत्वाबलवत् । प्रमाण- विरोधस्य प्रमेयविरोधमूलत्वेन पूर्वोपस्थिततद्विरोधेन प्रमेयबलस्य पूर्वमेवाऽऽलोच- नादिति तेनैव निर्णय इति नाऽऽचमनादेधिः किंतु क्रमस्यैवेति । प्रकृतेऽपि कालप्राप्त नित्यं निरवकाशं कृत्वा सावकाशं ततः कर्तव्यमिति सामान्यस्मृतिविहितहोमकर्तव्य. तया सप्तहोतृहोमानन्तर्य बाधितं द्रष्टव्यम् । एवं चाग्निहोत्रहोमो मध्ये कर्तव्य एवेति । अमुमर्थमाह प्रथमाध्याये तृतीयपादे जैमिनिः--शिष्टाकोपेऽविरुद्धमिति चेत् । न शास्त्रपरिमाणत्वात् । अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्, इति त्रिभिः सूत्रः । तत्राऽऽयं सूत्रं सिद्धान्तोपक्रमाशङ्कार्थ, द्वितीयसूत्रं तन्निर तृतीयं सिद्धान्त- सूत्रम् । शिष्टस्य श्रौतक्रमादेरकोपेऽवाधे सति आचमनादिस्मरणमविरुद्धमिति प्रथम. सूत्रार्थः । चेदित्यनेन सिद्धान्तोपक्रम आशक्यते । द्वितीयसूत्रे नेत्यनेन तन्निरास: क्रियते । अविरुद्धं न किंतु विरुद्धमेव । तत्र हेतुमाह-शास्त्रपरिमाणत्वादिति । प्रत्यक्षशास्त्रेणाऽऽचमनादिप्राप्तेः पूर्वमेव पदार्थानां क्रमकालपरिमाणैः परिमितत्वादिति शास्त्रपरिमितत्वादित्यस्यार्थः । कारणस्य बाधकारणस्याग्रहणेऽनुपलम्भे सति प्रयु. तानि शिष्टैः प्रयुक्तानि आचमनादीनि प्रतीयेरन्प्रमाणत्वेन प्रतीयेरन्निति तृतीयसूत्रार्थः । अपि वेत्यनेन पूर्वपक्षव्यावृत्तिः क्रियते । औपासनहोमोऽप्येवं मध्ये कर्तव्य एव । कूश्माण्डहोमाद्यर्थमाहननीयस्य पृथक्पृथक्प्रणयनमुद्धरणपक्षे द्रष्टव्यम् । अर्थायार्था. याऽऽहवनीयं प्रणयतीति सूत्रात् । अजस्रपक्षे त्वाहवनीयात्य नित्यधार्यत्वान्न प्रणय- नम् । उद्धरणपक्षेऽपि दक्षिणा नित्यं धारणमेव । नित्यं गार्हपत्यदक्षिणानी धार्यते 1 .