पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२० सत्याषाढविरचितं श्रौतसूत्रं- : [८ अष्टमप्रभे- संनिहितस्य सोमस्य मूलालाभो ह्यज्ञाननिबन्धनस्तथा च लभधात्वोऽत्र ज्ञानम् । तथा च न विन्देन्मूलं पश्यति तस्मिन्प्रदेशे प्रथमं प्रहरति(?) । तथा च मानवसूत्रम्- मूळेऽभिषुणोतीति । सोमस्य मूलभागे प्रथमोऽभिषवार्थः प्रहारो नाग्र इत्येतस्यार्थः । यदि सोमस्य मूलं न पश्यति तदा तृणं चेत्पश्यति तत्राभिषुणोति । तृणाभावे काष्ठ- खण्डं वा पश्यति तृणकाष्ठयोरप्यभावे तृणं दारुखण्डं वाऽन्तर्धायाभिषुणोतीत्यर्थः । सत्र प्रहारे मृत्तिका संतता स्यान जानीयादित्यर्थः । तर्हि तस्मिन्सोमे तृणं दर्भादि दारु काष्ठखण्डं वाऽन्तीयाभिषुणुयादिति मानवसूत्रार्थः ।

तृणमन्तर्धायाभिषुणोतीत्येकेषाम् ।

मूलाद्यन्यतमामाचे द्वितीयादिप्रहारे चापि तृणमन्तर्धायैवाभिषुणोतीत्येकेषामाचा- र्याणां मतमित्यर्थः । एकेषामितिश्रवणान्मूलाद्यन्यतमाभावे द्वितीयादिप्रहारे चापि तृणान्तर्धानस्यानियतत्वम् । तृणमित्युपक्षणं दारुखण्डस्य ।

अष्टौकृत्वोऽग्रेऽभिषुत्य निग्राभमुपैति यथा पुरस्तात् ।

अष्टौकृत्वोऽष्टवारम् । अष्टौकृत्व इति संख्यायाः कियाम्यावृत्तिगणने कृत्वमुनिति कृत्वसुच्प्रत्ययः । छान्दसो विभक्त्यलुक् । अग्र इति वचनं द्वितीयतृतीयपर्याययोर्व- क्ष्यमाणविकल्पापेक्षया । सति निमित्त आ मा स्कान्द्रप्सश्वस्कन्देत्येतयोः कृतयोनिमा- भमुपैति पूर्ववदित्यर्थः ।

अपात्तानामꣳशूनां द्वाभ्यामुपाꣳशुपात्रम पिधायोत्तरतः प्रतिप्रस्थातोपयच्छति ।

अपात्तानां पूर्वगृहीतानां प्रज्ञातक्रमेणासंश्लिष्तथा स्थापितानां षडशूनां मध्य आयो द्वावंशू ताभ्यामसंश्लिष्टाभ्यां द्वाभ्यां दक्षिणेन हस्तेनोपाशुपात्रमपियायोत्तरतः पात्रस्योत्तरत आसीनः प्रतिप्रस्थातोपयच्छति तत्पात्रं धारयतीत्यर्थः ।

वाचस्पतये पवस्व वाजिन्निति तस्मिन्नञ्जलिनाऽध्वर्युः सोममासिञ्चति ।

तस्मिन्नंशुद्वयान्तर्हित उपांशुपाने प्रतिप्रस्थात्रा धृते । अञ्जलिनेति वचनमेकहस्ते- नाऽऽसेचनं व्यावर्तयितुम् । अध्वर्युग्रहणं प्रतिप्रस्थातृव्यावृत्त्यर्थम् । न चापिधानो. पयमनासे चनक्रियाणामेकेन कर्तुमशक्यत्वादेवाऽऽसेचनस्याध्वर्युकर्तृकरवं सिध्यत्येवेति किमर्थमध्वर्युग्रह्णमिति वाच्यम् । उपयच्छतीत्यन्त वितणिकल्पनया क्रियात्रयस्यै. ककर्तृकत्यसंभवेन प्राप्तौ ता वारयितुमध्वर्युग्रहणस्याऽऽवश्यकत्वात् । अत्रोफ्यामो न भवति वचनाभावात् । पवित्रमपि अन्तर्यामान्तानां ग्रहाणां न भवतीत्यत्र ज्ञापकमने १ क. ग. योऽत्राज्ञा ।