सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ ३१०पटा] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

उपसृष्टस्य राज्ञः षडꣳशूनसꣳस्पृष्टान्प्रगृह्य प्रज्ञा- तान्निधायेतरानादायोपरिष्टाद्ग्रावाणं धारयन्न धस्तादꣳशून्प्रागपागुदगधरागिति होतृचमसे त्रिः प्रदक्षिणमनुपरिप्लावयति स निग्राभो भवति ।

निग्राम्याभिरुपसृष्टस्यासंस्पर्शः षण्णामपि प्रज्ञातनिधानं प्रवृद्धक्रमेण । इतरान्प्रवृ• व्यतिरिक्तानन्यान्बहुवचनानिप्रभृतीन् । उपरिष्टादित्यत्र होतृचमसस्येति शेषः । मावाणमुपांशुसवनम् । अधस्ताद्माणोऽधस्तात्पडंशुव्यतिरिक्तापूर्वगृहीतानंशूनुपांशुस- वनसंश्लिष्टान्धारयन्प्रागपागिति मन्त्रेण त्रिवारं प्रदक्षिणमनुपरिप्लावयति । प्रदक्षिणमनु. परिप्लावयतीति कृतव्याख्यानम् । अत्र प्रदक्षिणशब्दबोधितमानुल्यं यथा घर्षणेन तेषामंशूनां तासु निग्राम्यासु रससंबन्धो भवति तथेत्येवरूपं ज्ञेयम् । ननु अंशूनामेव संनिहितत्वात्तेषामेवोपरिष्टादित्यत्र संबन्धः, तथा च गृहीतानामंशूनामुपरिष्टाग्रावाणं धारयन्नित्यों भवति, एवं.च पूर्वत्रानुपात्तस्य होतृचमतस्य शेषोऽसंगत एवेति चेन्न । तथा पति अधस्तादनित्येतस्य वैयर्थ्यांपत्तेः । यो नियाभ्यास्वालोडनेनोत्पन्नो रसः स निग्रामसंज्ञको भवति । अम्ब निष्वरेति मन्त्रान्तः ।

तानुपरे न्युप्य वसतीवरीभिरुपसृज्य मा भेर्मा संविक्था इति ग्रावाणमुद्यम्य धिषणे वीडू सती इत्यधिषवणफलके अभिमन्त्रयते ।

तान्निग्रामसंज्ञकरससहितान् । मा भेर्मा संविस्था इत्येतावानेव मन्त्रः । मा मा हिसिषमित्यन्तो धिषणे इति मन्त्रः । वसतीवरीमिरुपसर्जनानन्तरं मा मेरिति ग्रावाण- मुद्यम्य विषणे इत्यधिषषणफलके अभिमन्त्रयते। द्विवचनलिङ्गात्संभवाच सकृदेव मन्त्रः।

अनागसस्त्वा वयमिन्द्रेण प्रेषिता उप वायुष्टे अस्त्वꣳअभूर्मित्रस्ते अस्त्वꣳशभूर्वरुणस्ते अस्त्वꣳशभूरहतः सोमो राजेति यत्र मूलं तृणं काष्ठं वा पश्यति तस्मिन्देशे समे प्रहरति ।

यत्र यस्मिन्राज्ञो मूलाद्यन्यतमं समुचितं वा पश्यति तस्मिन्नेव देशे प्रथम प्रहरति । सम इति वचनात्समानंशन्कृत्वा प्रहरति । यत्र मूलयुक्ता भूयिष्ठा अंशवो भवन्ति तादृशे देशे प्रहरतीति यावत् । काष्ठं लघुकाष्ठखण्डम् । लोष्टमित्यपपाठः । लोष्टस्य राज्ञि संसर्गस्यायुक्तत्वात्तस्य परित्याज्यत्वात् । यदि वा पुरा तृणं काष्ठं मूळं वा स्यात्तस्मिन्प्ररेदित्यापस्तम्बसूत्रसंवादात् । यदि मूलं न विन्देत्तृणं दारु वाऽन्तर्दध्या. दितिमानवसूत्रसंवादाच्च । यदि मूलं मूलमागं सोमस्य न विन्देन्न लभेन जानीयात् । ११.ज.श. म. द. लोष्टं ।