सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृ० पटलः ] गोपीनाथभकृतज्योत्स्नाव्याख्यासमेतम् । १७ प्वेव विकृतिवेव ग्रहीतव्यौ न सर्वासु प्रकृतिविकृतिषु ग्रहीतव्याविति । योऽस्याध्वयों: सुप्रीतः सुपरीक्षितः स्याद्य जमानः कल्याणगुणो यदि तस्य सर्वास्वेव प्रकृतिविकृतिषु चिनाऽपि कामं ग्रहीतव्याविति । इत्योकोपाहश्रीमद मिष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विषाहस्राप्रियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायो श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- प्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायर्या वृत्तावष्टमम- श्वस्य द्वितीयः पटलः ॥२॥

8.3 अथाष्टमप्रश्ने तृतीयः पटलः ।

देवस्य त्वेत्युपाꣳसवनं ग्रावाणमादाय वाचं यच्छत्याऽऽग्रयणस्य ग्रहणात् ।

प्रावाणमितिवचनमुपरनिहितग्रावचतुष्टयतो भिन्नत्वेऽपि अत्राप्याकारस्तद्वदेव, एत- द्भेदनेऽपि प्रायश्चित्तमपि तदेवेति प्रदर्शयितुम् । आदायेत्यत्रत्यल्पप्समानकालिकरवा- को मुर्ख ब्यादाय स्वपितीतिवत् । तमाददानो वाचं यमित्वेत्यापस्तम्बेन स्पष्ट मेवाय- मर्थ उक्तः । अत आपस्तम्ब सूत्रसमानार्थकत्वोपवर्णनमेव युक्तं न तु तद्विसंवायुपव- नं युक्तम् । अत्र वाग्यमनविधानेनान्यत्र मध्ये यावदुपयुक्तव्याकृतवागुच्चारणे न दोषः । अत्र तु तदुच्चारणेऽपि दोष इति विशेषोऽवगम्यते । इदं व्याख्यानं सर्वत्र द्रष्टव्यम् । आदानप्रभृति वाचं यच्छति नियमीत आग्रयणग्रहणपर्यन्तम् । आ, आन- यणादिति पदच्छेदः । आदद इत्यन्तो मन्त्रस्य ।

ग्रावाऽसीत्यभिमन्त्रयते ।

वृष्टिवानिमित्यन्तो मन्त्रस्य ।

तमधिषवण ऊर्ध्वसानुं निधायेन्द्राय त्वा वृत्रघ्न इत्ये तैर्मन्त्रै राजानमभिमिमीते यथा क्रयेऽन्यदुपसमूहनात् ।

तमुपांशुसवनम् । अधिषवणे चर्मणि । अधिषवणग्रहणेन सूत्रान्तरोक्त उपरो यावय॑ते । ऊर्ध्वसानुमु/यं निधाय स्थापयित्वेन्द्राय त्वा वृत्रघ्न इत्यादिमिः पञ्च- भिम राजानममिमिमीते । एतच्छब्दोपादानप्रयोजनं पूर्ववत् । मन्त्रैरिति वचनं सर्व- मरेकैकं मानमित्यपि पक्षान्तरमस्तीतिज्ञापनार्थम् । श्रुतौ पञ्चकृत्वो यजुवेत्येकवचन- मेवास्मिन्पक्षे प्रमाणम् । अभिशब्द अवसानोरुपांशुप्तव नस्योपर्येव मानार्थों यथा क्रय