सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१६ सत्यापाढविरचितं श्रौतसूत्रं- [ अष्टमप्रश्ने-

देवा इदं तृतीयꣳ सवनं कवीनामित्येताभि र्गृह्णाति सर्वासामन्तत उपयामा भवन्ति ।

एताभिर्मभिरुपयामगृहीतोऽसीत्यन्ताभिः खल्प स्वल्पं गृह्णातीत्यर्थः । शुक्र त इत्येतस्यापि त्रिष्टुप्छन्दोरूपत्वादन्नत एवोपयामः । सर्वासामित्यनेन शुक्र ते शुक्रेण गृह्णाम्यगो रूपेण सूर्यस्य रश्मिभिरित्येतस्य अक्वं विना ग्रहणासंभवादवश्यमृक्त्वस्य स्वीकारः । तत्र कचः पादबद्धत्वात्कथमन पादकल्पना किंवा तस्यां सत्यां छन्दो मवतीति शङ्कायामुच्यते-शुक्र ते शुक्रेण गृह्णाम्यत इत्येकः पादः । रूपेण सूर्यस्य रश्मिभिरिति एकः । तत्राऽऽद्यः पादो यणादेशेनैक्यभावं गताभ्यामिकाराकाराम्या- मेकादशाक्षरः । द्वितीयः पादः सूर्यशब्दान्तर्गतर्यवर्णे रिय इत्यक्षरद्वित्वभावनया दशाक्षरः । तथा च त्रिष्टुभो रुदा इति पिङ्गलसूत्रादेकादशाक्षरा त्रियुविति श्रुतेश्च त्रिभो लक्षणं सिध्यति । एकस्याक्षरस्य न्यूनत्वान्नित्रिष्टुब्भवति । उनाधिकनैकेन निरिजाविति पिङ्गलसूत्रात् । रिय इति द्वित्वभावनायां घृणिरिति द्वे अक्षरे सूर्य इति त्रीणि आदित्य इति त्रीणि एतदै सावित्रस्याष्टाक्षरं पदर श्रियाऽभिषिक्तमिति श्रुतिः पाद इयादिपूर्ण इति पिङ्गलसूत्रे(त्र) च प्रमाणम् । प्रसिद्धं चैतद्गायच्या ण्यामित्यस्य णियमिति द्वित्वभावनया द्वित्वम् । स्पष्टं च न्यासादौ । एवं च निवृत्रि- ष्टुब्लक्षणाकान्तत्वादेतस्थापि मनस्य ऋक्त्वमस्त्येवेति सिद्धम् । रश्मिभिः सह मक्षाः स्थाम सुमतौ स्याम वतीयो नयन्तु इति मन्त्रान्ताः ।

आऽस्मिन्नुग्रा अचुच्यवुरिति हरति ।

आहवनीय प्रति हरति । असश्तेति मन्त्रान्तः ।

ककुहꣳ रूपं वृषभस्य रोचते बृहदित्यभिमन्त्रयते ।

स्पष्टम् ।

सोमः सोमस्य पुरोगा इति जुहोति प्रज्ञातानꣳशून्निदधाति ।। ६ ।।

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने द्वितीयः पटलः ।

थेन क्रमेण प्रवृद्धास्तेनैव क्रमेण प्रज्ञातानंशननुप्तवनमभिषवार्थ निदधाति । सोमाय स्वाहेति मन्त्रान्तः । अत्र निःशेषमेव होमः । अभिषवाभावेन भक्षणरूपप्रतिपत्तेरसंभ- यात् । अंश्वदाम्ययोपिशेषमाहाऽऽपस्तम्बः-भ्रातृव्यवताऽदाम्यो ग्रहोतव्यो बुभूषतां- शुस्तौ न सर्वत्र महीतव्यौ वानपेये राजसूये सत्रे सहले सर्ववेदसे वा योऽस्य सुप्रियः मुविचित इव स्यात्तस्य ग्रहीत याविति । काम्यत्वे प्रकृतावेव निवेशः । वाजपेयादि- १ ख. ग. 'न्दोनु ।