सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवि०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ८१३ तस्यैवोपक्रान्तत्वात् । हिरण्येऽभिव्यानने कृते ग्रहग्रहणकाल उच्छासकृतो दोष आयुहीनतारूपः स विनश्यतीत्यर्थः । तथा च श्रुतिः-अनवानं गृह्णाति सेवास्य- धिहिरण्यमभिव्यनित्यमृतं वै हिरण्यमायुः प्राण आयुषैवामृतमभिधिनोति शतमानं मवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिय प्रतितिष्ठतीति ।

तꣳ सहिरण्येन शतमानेन सꣳस्पर्श्य हिरण्येनापिदधाति ।

तमंसुं हिरण्येन सहित सहिरण्यमेतादृशं शतमानमन्यद्धिरण्यं तेन संस्पश्य सम्यग्धिरण्येन स्पर्शयित्वा हिरण्येनापिदधाति । अत्र सहशब्दोपादानाच्छतमानहि- रण्यसाहित्यार्थमन्यद्धिरण्यं ग्राह्यमिति गम्यते । तच्चात्र रजतरूपमेव न तु सुवर्णरूपम् । बौधायनीयेऽत्र स्पष्टमेव रजतसंवन्धो दृश्यते । शतमानेनेत्यत्रापि तद्विशेष्यत्वेन हिरण्यशब्दोऽन्वेति । इदं च शतमानं हिरण्यं पूर्वशतमानतो भिन्नमेव । पुनः शतमानशब्दोपादानात् । अन्यथा सहिरण्पेन तेनेति तच्छब्देन ग्रहणं कृतं स्यात् । न च शतमानशब्दोपादानं रजते शतमानत्वलाभार्थमिति वाच्यम् । शतमानशब्दस्य रजतेऽन्वयासंभवेन तल्लाभासंभवात् । रजते शतमानशब्दस्यान्वयस्तु सशतमानहिरण्ये. नेत्येवंप्रकारकसमासेनैव भवति नान्यथा । न हि प्रकृते तथा समासोऽस्ति । न च विनिगमनाविरहादभिव्याननसंस्पर्शापिधानेषु रजतरूपं गौणं हिरण्यं साहित्यार्थ मुख्यमिति वैपरीत्यमेवास्त्विति वाच्यम् । सुवर्णात्मकहिरण्यस्यैव मुख्यत्वेन तस्यैव मुख्यकार्य उपयोगः । रजतरूपहिरण्यस्य तु गौगत्वेन साहित्य रूपगौणकार्य एवं तस्योपयोग इत्येवं रीत्या विनिगमकलाभेन वैपरीत्यस्य वक्तुमशक्यत्वात् । न च रजते हिरण्यत्वे किं प्रमाणमिति वाच्यम् । रजत हिरण्यमभवत् , तदुर्वणः हिरण्य- मभवत्, तत्सुवर्ण हिरण्यमभवत् , सर्व हिरण्य५ रजतमित्यादिश्रुतीनां रजत५ हिरण्यं मध्यमायामिति सूत्रस्य च मानत्वात् | सपश्येति णिजन्तप्रयोगाद्धिरण्येन संस्पर्शनमन्येन कारणीयं न तु अध्वर्युणा संस्पर्शः कर्तव्य इति बोध्यते । स्वार्थे णिज्वा । अस्मिन्पक्षेऽध्ववि । संशब्दात्सर्वावयवावच्छेदेन स्पर्शः । पुनहिरण्यग्रहण रजतव्यावृत्त्यर्थम् । अपिदधातीति वचनात्परिमण्डलाकृतित्वं तस्य गम्यते । अंशुहो. मोत्तरं गृहे तन्नियोजयितव्यमेव दानावचनात् । अभिव्यानने मन्त्रः । प्राणाय त्वेति मन्त्रान्तः।

इन्द्राग्नी मे वर्चः कृणुतामिति हरति ।

इत आरम्य नित्यो विधिः । हरति आहवनीय प्रति । अश्विनेति मत्रान्तः ।

दधन्वेवा यदीमन्वित्यनवानं जुहोति ।

अनवानमित्युपलक्षणं प्राणनापाननयोः । प्रजापतिरत्र देवता । एतत्त स्पष्टमा- हाऽऽपस्तम्बः-दधन्वेता यदीमन्वित्यनिरुक्तया प्राजापत्यया प्राण्यापान्य व्यानजुहो १०३