पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1

-

२द्वि०पटकः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७९९

उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योति- ष्मन्तं गृह्णामीति दधिग्रहपात्रे दधिग्रहं गृह्णात्यपेन्द्र द्विषतो मन इति हरति प्राणाय त्वाऽपानाय त्वेति जुहोति ।

यत्पूर्वस्मिन्दिने कृतं तद्दध्यत्र । दधिग्रहं गृह्णातीत्यत्र दधिग्रहशब्दो द्रव्यपरः । अग्निहोत्रमधिनयतीतिवत् । दधि गृह्णातीत्येतावनैव सिद्धौ ग्रहवचनं शापवित्रकर- णकपरिमार्जनस्य प्राप्तये । हरति आहवनीयं प्रति होमार्यम् । दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति तं नहीति जुहोमीति त्रयाणां मन्त्राणां क्रमेणान्ताः । जुहोतिचो. दितत्वादन्तिमस्य होमार्थस्य मन्त्रस्यान्ते स्वाहाकारः। आहवनीयस्य पश्चादुपविश्यक होमो येन केनचिधिग्रहपात्रकोणेन । अपूर्वत्वान्न दर्विहोमधर्मः । इन आरभ्याss. ग्रयणात्प्राक्तनान्ग्रहानुपांशुस्वरेण गृह्णीयात् । आप्रयणा/नुपब्दिमत्स्वरेण | तथा च श्रुतिः-यान्याचीनमायणाग्रहानगृह्णीयात्तानुपाशु गृह्णीयाद्यानुर्वा ५स्तानुपब्दिमत इति । करणवदशब्दममनःप्रयोग उपांशु सशब्दमुपब्दिमदितिप्रातिशाख्यसूत्रोक्ताम्यामे. ताम्या स्वराभ्यां यथायधम् । आग्रयणस्य तत्तम एव स्वरः । अयं दधिग्रहो न नैमित्तिकः । न च देवतान्तराये विधानान्नैमित्तिकत्वमिति वाच्यम् । यदिशब्दावभावेन निमित्तस्पान- तोतेः। तथा च नित्यः । तथा च चतुर्थाध्याये चतुर्थपादे जैमिनिः-दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् , नित्यश्च ज्येष्ठशब्दत्वात् , सार्वरूप्याच्च नित्यो वा स्यादर्थवादस्तयोः कर्मण्यसंबन्धादकत्वाचान्तरायस्येति । दधिग्रहो नैमित्तिको भवति श्रुतिसंयोगादेव. मान्तरायनिमित्तश्रुतिसंयोगादिति प्रथमसूत्रार्थः । ज्येष्ठशब्दत्वादित्यत्र शब्दः स्तुति- परः । ज्येष्ठ इति शब्दः स्तुतिर्यस्य तस्मात् । अथवा ज्येष्ठशब्दत्वाज्येष्ठशब्दवत्त्वा- दित्यर्थः । अथवा ज्येष्ठशब्दः प्राथम्यवचनः प्रथम गृह्यमाणत्वात् । तथा च नैमि- त्तिकत्ववन्नित्यत्वं चेति द्वितीयसूत्रार्थः । सार्वरूप्याच्च प्रजापतिः सर्वा देवता इति सर्वदेवतासारूप्यादपि नित्यत्वमिति तृतीयसूत्राः ।

आज्यग्रहं गृह्णीयात्तेजस्कामस्य सोमग्रहं गृह्णीयाद्ब्रह्मवर्चसकामस्येति ।

काम्याविति शेषः।

तयोर्दधिग्रहेण कल्पो व्याख्यातः ।

तयोराज्यसोमग्रहयोः । दधिग्रहस्य या कल्पः प्रकारः। औदुम्बरं चतुःस्रक्ति दधि- प्रहपात्रमित्यस्यात्र प्राप्तिः । उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योति- मन्तं गृह्णामोत्यादिः प्राणाय त्वाऽपानाय त्वेति जुहोतीत्यन्तश्चैवानयोर्भवतीत्यर्थः ।

दधिग्रहं गृह्णीयात्पशुकामस्येति नित्ये काम्ये ।

दधिग्रहं गृह्णीयादिति वाक्येन नित्ये विधौ तस्यैव दधिग्रहं गृह्णीयात्पशुकामस्येति वाक्यान्तरेण फलश्रवणेन काम्ये विधौ च दधिग्रह एव भवति नेतरावित्यर्थः । अथ का , ADH