पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A - सत्याषाढविरचितं श्रौतसूत्रं- [८ अष्टमप्रश्ने-

उत्तरस्मिन्हविर्धाने यथावकाशमितराः ।

उत्तरहविर्धानसमीपे यथावकाशमितरा होतृचमसस्थव्यतिरिक्ताः सर्वाः । एकध. माना पश्चादशमेवाऽऽसादनं वसतीवरीणां तु पुरोक्षम् । तथा चाऽऽपस्तम्ब:- उत्त- रस्य हविर्धावस्याधस्तात्पुरोक्षं वसतीवरीः पश्चादक्षमेकधना इति । तत्र पश्चादक्षं तिस्त्र एकनास्थालीरितरास्तु यथावकाशमित्यापस्तम्बतो विशेषः ।

निग्राभ्याः स्थ देवश्रुतः शुक्राः शुक्रभृतः पूताः पूतभृत आयुर्मे तर्पयतेति होतृचमसे यज मानं वाचयति ता निग्राभ्या भवन्ति ।। ४ ।।

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने प्रथमः पटलः ।

तत्रस्थ एव होतृचमसे होतृचमसमीपे, सामीप्येन प्रेक्षणं लक्ष्यते । तथा च मौधायन:-ताः प्रेक्षमाणं यजमानं वाचयतीति । यजमानग्रहणं पत्नीव्यावृत्त्यर्थम् । अन्यमपि विशेषमाह स एत-उरोवारमिवोपनिगृह्म तामु निग्राम्याम् यजमानं वाचयतीति । उपनिग्रहणं कृताकृतं यासां निमित्त होतृचमसे. वाचनं कृतं ता भापो निग्राम्या निनाम्यामिधा भवन्तीत्यर्थः । अभिधायाः प्रयोजनं श्वात्राः स्थ वृत्रतुर इति निग्राम्याभिरुपसूनतीत्यादावेतासां संपत्ययः । शुक्राः शुक्रभृतः पूनाः पूतभूत इति शाखान्तरोपात्तांशरहितेन स्वशाखास्थेन विकल्पते । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमम- श्नस्य प्रथमः पटलः ॥१॥


8.2 अथाष्टमप्रश्ने द्वितीयः पटलः ।

दधिग्रहेण प्रचरति ।

गृह्यत इति ग्रहः । दधिरूपो ग्रहो यस्मिन्कर्मणि तदेतादृशं दधिग्रहनामक कर्म तेन प्रचरति तदनुतिष्ठतीत्यर्थः । अत्र प्रचारशब्देनानुष्ठानरूप एवार्थो गृह्यते न त यागः । वषट्कारमाध्यत्वाभावात् । ग्रहशब्देनात्र द्रव्यमुच्यते । सामान्यप्र- तिज्ञेयम्।