सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

¿ ७९२ सत्याषाढविरचितं श्रौतसूत्र- [भष्टमप्रभे- स्थुस्तदोद(द)ह्य यत्र स्थितस्प प्रातरनुवाकनवणं मायेत तावत्परिमिते समापे प्रदेश साम्योऽन्योऽप मानीय तत्र स्थापयित्वा गृहीयात् । तथा च श्रवणमेवाऽऽवश्यकम् । मैत्रायणीयबामणे यत्रोपशृणुयाधिरः स्यादिति दोषनषणादिति भावः । सामा- न्यप्रतिज्ञेयम् । कथमित्याकाक्षायामाह-

अप्सु तृणं प्रास्य देवीराप इत्येतच्चतुर्गृहीतं जुहोति ।

या ग्रहीतव्या आपस्तासु, दीनियमार्थ तृणवचनं, प्रास्य प्रक्षिप्य । एकवचना- देकमेव तृणं, जात्यभिप्राय पैकवचनम् । एतच्छब्दः सुपां सुलुगित्यनेन लुससप्तमीको द्रष्टव्यः । तेनैतस्मिन्नित्यर्थो भवति । तथा च तृणमभिलक्षीकृत्यैत्र जुहोतीति सिद्ध भवति । अपरं चतुगृहीतं गृहीत्वेति पूर्व गृहीतं चतुर्ग्रहीतमेव तस्यैवार्थादेव लामे र्गृहीतवचनमन्यत्रापि राजपूयेऽभिवासितैर्षायव्यैरपां ग्रहान्गृह्णाति देवोरापो अर्मा नपाद्राष्ट्रदाः स्थ राष्ट्र दत्त स्वाहेति सारस्वतीयप्प हुत्वैतेनैव गृह्णात्यर्थेऽतः स्थेति देवमितरास्वित्यनेन विहितेऽप्यु होमें चतुर्ग्रहीतलाभार्थम् । भागः स्थ स्वाहेति मन्त्रान्तः ।

शेषं वा करोति ।

चतुर्ग्रहीतं सर्व जुहोति शे वा करोति चतुर्थ भागं हुत्या भागत्रयमवशेषयती. त्यर्थः । अन्ग्रहणानुकूलत्वाय स्वरूपस्थैव होतव्यत्वात् । सर्वस्य होमेऽपि अञ्जनमात्रार्य तु अवशेषणीयमेव । तत्सर्व जुहोतीति वक्ष्यमाणसूत्रे सर्ववचनेन स्वरूपाग्यावशेषः कर्तव्य एवेत्यर्यबोधनात् । भञ्जनपदार्थस्य विन्दुमात्राज्यप्ताध्यत्वं सर्वत्रेति जुवा ध्रुवां त्रिः समनक्तीत्यस्मिन्सूत्रे प्राचीन ख्यातृमिरुतं चास्ति । अतोऽत्र कार्यसत्त्वादञ्जन- पर्याप्तमवश्यमवशेषणीयमेवेति ।

यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति ।

तृणप्रासनात्पुरा पूर्वमेव स्वतस्तृणमुपस्थितं भवति तदा तत्संस्तम्मयित्वा तस्मिन्नेव तज्जुहोति न तु तृणप्रासनमाहुत्यर्थ कर्तव्यमित्यर्थः ।

कार्षिरसीति दर्भैराहुतिमपप्लावयति ।

दमैरिति वचनाद्विलंतनं मुष्टेः । आहुतियाइतिसंबन्धि आज्यमपप्लापयति अपोहति ग्रहणप्रदेशाद्दूरी करोतीति यावत् । मृधमिति मन्त्रान्तः ।

समुद्रस्य वोऽक्षित्या उन्नय इत्यघृतलिप्तानां मैत्रावरुणचमसेनोन्नयति ।

आहुतेरपप्लावनमदृष्टार्थ न भवति किंतु अधृतलिप्ताग्रहणानुकूलतारूपदृष्ट प्रयोजनमिति प्रदर्शयितुमवृतलिप्तानामिति । तेनाऽऽहुनेरपप्ठावनेनावृतलिप्तानां ग्रहणमसंभरि पेत्तदा