सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६४ सत्याषाढविरचितं श्रौतसूर्य- [८ अष्टमप्रभे- भारब्धो मवति तथा तदनुरोधेन कर्माणि यज्ञतनूहोमादीनि उपक्रमन्त भारमन्त इत्यर्थः । कर्मोपक्रमस्तु कृतशौचैरेव कार्यः । अन्यथा कर्मण्यनधिकारः स्यात् । नाता एव कर्म कुर्युरिति केचित् । कृतहस्तपादप्रक्षालना आचान्ता एवेत्यन्ये । न च फर्मान्ते हस्तपादान्प्रक्षाल्यान्तरेण चास्वालोकरी देवयजनमामिप्रपद्यन्त इति हस्तपादा- प्रक्षाल्याऽऽनोभ्रे यजमानमुपसंगच्छन्त इति कल्पसूत्रे च हस्तपादप्रक्षालनमात्रेणैव कर्माधिकारस्योक्तत्वेन स्नान विनवाधिकारो नित्यं स्नानं तु स्वकाले भवत्येवेति वाच्यम् । अस्वयं लोकविद्विष्टं धर्मपप्पाचरेनस्वित्यनेन याज्ञवल्क्यवचनेन सूत्रोक्तस्यापि पक्षस्य बाधात् । तथा च स्नात्वा कर्माणि कुर्वीतेति स्मृतौ स्नातस्यैव कर्मकरणेऽधिकारस्योक्तः सामान्यशास्त्रमनुसृत्यैव स्त्रोतरेव कर्म कर्तव्यमित्येव युक्तं परं तु अमन्त्रकमिदं स्नान- मिति द्रष्टव्यम् । संध्योपास्तिस्तु मध्य एव स्वकाले ।

प्रजापतिर्मनसाऽन्धोऽच्छेत् इति त्रयस्त्रिꣳशतं यज्ञतनूराग्नीध्रे जुहोति ।

स्मार्तावृताऽऽज्य संस्कृत्य तेन होमो दविहोमधर्मेण । प्रजापतिर्मनसेत्यादयस्त्रय- त्रिंशन्मन्त्रा यज्ञतनूसंज्ञकास्तैः साध्यास्त्रयस्त्रिंशत्संख्याका आहुती होतीत्यर्थः । तत्र प्रथमा चतुष्पदा । त्रयोदशी त्रिंशी च त्रिपदा । इतरा द्विपदाः । विंशत्याद्याः सदैकत्व इति कोशादेकवचनम् । विशेषमत्राऽऽह-

पूर्वां पूर्वामनुद्रुत्योत्तरयोत्तरयैकया नु प्रथमया ।

प्रनापतिर्मनसाऽन्धोऽच्छेत इति पूर्वी यज्ञतनूः । धाता दीक्षायामित्युत्तरा यज्ञतनूः । तत्र प्रजापतिर्मनसाऽन्धोऽच्छेत इति पूर्वी यज्ञतनूमनुद्रुत्य संयोज्य धाता दीक्षायामि- त्युत्तरया यज्ञतन्वा जुहोतीत्यर्थः । एवं धाता दीक्षायामिति द्वितीयां यज्ञतनूं संयोज्य सविता भृत्यामिति तृतीयया यज्ञतन्वा । सविता भृत्यामिति तृतीयां यज्ञतनूं संयोज्य पूषा सोमकयण्यामिति चतुर्थ्या यजतन्वेत्यादित्रयस्त्रिंशद्यज्ञ तनूपर्यन्तम् । एतदर्थमे - वोभयत्र वाप्सा । संहितारूपमेवैतद्योजनम् । आहुतिषु त्रयस्त्रिंशत्त्वसिद्ध्यर्थमुपायमाह- एकया नु प्रथमयेति । नुरवधारणे । त्रयस्त्रिंश्याहुतिस्तु एकयैव प्रथमयेति । एकयेति वचनमन्तिमा यज्ञतनूमनुद्रुत्य प्रथमया यज्ञतन्वा जुहोतीत्येवं स्यात्, अन्तिमापेक्षया प्रथमाषा अनन्तरत्वेनोत्तरत्वात्तत्पूर्वत्वेनान्तिमायाः पूर्वत्वात्, पूर्वी पूर्वीमनुद्रुत्योत्तर- योत्तरयेति मूत्रात्, अथवाऽन्तालोपो विवृद्धिति न्यायेनानुद्रवणविशिष्टयाऽन्तिमया यज्ञतन्वेति स्यात्तन्मा भूदित्षेतदर्थम् । एकशब्दः केवलवाची । प्रथमयेति वचनं तेनैव न्यायेन केवलाया अन्तिमायाः प्राप्ताया निवारणार्थम् । जुहोतिचोदितत्वात्स्वाहाकारः। यत्र मन्त्रगणेनेति पारेमाषया प्रतिमन्त्रम् । इ. ज. स. न. ढ. 'रयै।