सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१०पटक: ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७६३

अथाष्टमः प्रश्नः।

तत्र प्रथमः पटलः।

महारात्रे बुध्यन्ते ।

रात्रेमहान्भागो महारानं तस्मिन्महाराने रात्रेर्यो महान्भागस्तस्मिन्नित्यर्थः । मयू- रव्यंसकादिलक्षणः समासः । समासान्तो मागपदलोपश्च तदादित्वात् । एतादृशे व्याख्याने यदि सोमौ सरसुतौ स्यातां महति रात्रियै प्रातरनुवाकमुपाकुर्यादिति श्रुतौ श्रुतं रात्रिशब्दमहच्छब्दयोलिङ्गमेदकृतवैयधिकरण्यं साधकम् । महती चासौ रात्रि- श्वेति विग्रहस्तु नैवात्र भवति । महत्वस्य रात्रिविशेषणत्वे महत्वं रात्रौ, मानकृतं तच्च वसन्ते सर्वथा नैव संभवति । उत्तरोत्तरं रात्रीणामत्पमानत्वात् । रात्रिषु महत्त्वं तु दक्षिणायन एवोत्तरोत्तरम् । तथा सति महतीषु रात्रिषु सतीष्वेव बोधनं स्यात्, बोधनस्य च सुत्यार्थत्वादत्रैव कर्तव्यता स्यात् । वसन्ताधरात्रावेव कर्तव्यता स्याद्वा । तस्या एव महत्त्वात् । सा च प्रकृते विरुध्येतेत्यतो नैतादृशो विग्रहोऽत्र युक्तः । एतेनानन्तरोदाढतश्रुतौ रात्रिया इति चतुर्थी यथा षष्ठ्यर्थे तथा महतीति महच्छन्दग- तसप्तमीविभक्तिरपि षष्ठयर्थिकैव । एतदनुरोधेन पुंलिङ्गमपि विपर्यस्तं कर्तव्यमिति कुसृ- ष्टिकल्पना निरस्ता द्रष्टव्या । तत्र महच्छब्देन रात्रितृतीयभागो गृह्यते । किमेतादृश- मेव महत्वमित्यत्र नियामकमिति चेत् । वक्ष्यमाणस्य स्वरमाणस्त्वनुदित उपाशुमुदितेऽ- न्तयाममुभावनुदित इत्येकेषामिति सूत्रस्यैव नियामकत्वात् । एतेनैव जानीमो यावता कालेनोपांशुपर्यन्तमुभयपर्यन्तं वा कर्मानुदिते भवति तदनुरोधेन बोद्धव्यमिति । एतेने- दमपि ज्ञातं भवति चतुर्धाविभक्तरात्रितृतीयभागाद्यमागात्मके काल एव बोद्धव्यमिति । ननु किमर्थमिदं सूत्रमर्थादेव तसिद्धेरिति चेन्न । आशुकर्मकारिमिरप्यूविग्भिरतस्मि नेव काले बोद्धव्यं नत्वेतस्य पुरस्तादुपरिष्टाद्वेतीच्छासिद्धनियमनार्थत्वात् । नन्वेवमपि महाराने कर्माण्युपक्रमन्त इत्येतावतैव सिध्यति नार्थो बोधवचनेनेति चेन्न । तस्य संबन्धविशेषज्ञापनार्थत्वात् । यत्र महाराने बोधनमस्ति तत्रैव पुरा वाचः प्रवदितोः प्रातरनुवाकोपाकरणं नान्यत्रेति । तेन द्वादशाहे प्रायणीयातिरात्राख्ये प्रथमसौत्यदि वसे समाप्त एवाहन्युदितेऽप्यादित्ये द्वितीयसौत्यदिवसीयप्रातरनुवाकोपाकरणं कर्तव्य बोधनामावादिति सिद्धं भवति । एतेन यत्र होताऽऽश्विनं शंसति तत्र मैत्रावरुणः प्रातरनुवाकमनुब्रूयादितिशास्त्रान्तरबलात्प्रतिप्रस्थात्रैव द्वितीयसौत्यदिवसकर्म कर्तव्यं यावत्पर्यन्तमध्वर्युः पूर्वकर्मणः सकाशानिर्मुक्तो भवति तावत्पर्यन्तमध्वयोनिर्मुक्तताया- मध्वर्युरेव तत आरम्य करोतीति केषांचिन्मतं नास्माकमनुकूलमिति प्रदर्शितम् ।

तथा कर्माण्युपक्रमन्ते यथा पुरा वाचः प्रवदितोः प्रातरनुवाको भवति ।

यथा वाचो मनुष्याणां पक्षिणां वा प्रवदितोः प्रवदनात्पुरा प्राक् प्रातरनुवाक .