पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म०पटल:] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । परिहणप्रकारमाह-

आदाय कुम्भꣳ सव्येऽꣳसेऽत्याधायापरेण प्राज हितमतिक्रम्य दक्षिणया द्वारोपनिर्हृत्य द क्षिणं वेद्यन्तमनु परिहृत्येन्द्राग्नियोर्भागधेयीः स्थेति दक्षिणस्यामुत्तरवेदिश्रोण्याꣳ सादयति ।

भादाय कुम्ममित्यत्रान्यस्मादिति शेषः । तेनान्येनाध्वर्यवे कुम्मप्रदानं कर्तव्यमिति सिद्धं भवति । अन्यथा सम्यासेऽत्याधायेत्यनेनैवार्थादादानसिद्धेर्वचनं व्यर्थ स्यात् । कुम्भग्रहणं कुम्भ्युपलक्षणम् । सव्य इत्यसविशेषणं. यसतीवरीणामन्तरङ्गरवासियर्थम् । अंसग्रहणं पार्श्वव्यावृत्त्यर्थम् । अतिरत्रान्तर्धानार्थकः, असे किंचिदन्तर्धायाऽऽधानं कर्तव्यमिति । प्राजहितः पुराणगाईपस्यः प्रकर्षणाग्निप्रणयनादिकर्मसु नहितस्त्यक्तः स प्राजहित इत्यर्थो वा । अस्मिन्पक्षे योगरूढ़. पदम्। दीर्घश्छान्दसः । गत्वेति परित्यज्या. तिक्रम्येति वचनागार्हपत्यापरभागमुल्ल यैवाने गन्तव्यमिति । दक्षिणया द्वारा दक्षि- णेन द्वारेण । उपशब्दो नम्रीभवनरूपमर्थविशेष द्योतयति । निर्हरणं द्वाराहहिनिःसा- रणम् । दक्षिणं वेदेमहावेदेरन्तं प्रान्तमनुलक्षाकृत्यैव वसतीवरी: परिहत्येन्दामियोर्भाग- धेयीः स्थेति मन्त्रेण दक्षिणस्यामुत्तरवेदिनोण्या साक्यति ।

आदाय कुम्भं दक्षिणेऽꣳसेऽत्याधाय यथेतं प्रत्येत्योत्तरपूर्वया द्वारोपनिर्हृत्योत्तरं वेद्यन्तमनु परिहृत्य मित्रावरुणयोर्भागधेयीः स्थेत्युत्तरस्यामुत्तरवेदिश्रोण्याꣳ सादयति ।

दक्षिणेऽस इत्यत्र दक्षिणवचनं वसतीवरीणामन्तरजातासिध्यर्थम् । अंसग्रहणं पार्थ- व्यावृत्त्यर्थम् । उत्तरपूर्वया द्वारोपनि त्यति कामनाथ विहितस्यैतस्य तस्व एव नान्य- था। तदभाव उतरपूर्वयोत्तरया वा द्वारोपनिहरणम् ।

आदाय कुम्भꣳ सव्येऽꣳसेऽत्याधाय तीर्थेन प्रपाद्य विश्वेषां देवानां भागधेयीः स्थेत्याग्नीध्रे सादयति ।।

तीर्यशब्दो वेद्युत्करयोरन्तरा प्रदेश चात्वालोत्करयोरन्तर प्रदेशे च वर्तते । अन्जरा वेद्युत्करावन्तरेण चात्वालोत्करौ वा सार्थमिति सूत्रान्तरात् । अचा- स्वाले कर्मणि पूर्वतीर्थ सचावाल उत्तरम् । आग्नीधः आग्नीप्रधिष्ण्यसमीपे । जागृति मन्त्रान्तः । आदाय कुम्भं सव्य सेऽत्याधाय तीन प्रपद्येत्येतायतैव सन्येऽसेऽत्याहि- तत्त्वाव्यस्य तीर्थन प्रपादने सिद्धे गिप्रयोगोऽन्यत्रापि खेनागृहीतस्यापि तीर्थन प्रपादनं ज्ञापयति । तेन पश्चादीनां तीर्थेन प्रपादनं सिद्धं भवसि । इदमपि अत्र वचनाज्जातं भवति केनचित्पदार्थेन. स्वस्यासाहिये तीन प्रपदनं नानियतमिति ।