पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । स्तम्घनोक्तम्-अग्रेण प्राग्वंशमभितः पृष्टयामव्यवयन्निति । कात्यायनः- -हविर्धाने स्थापयति पृष्ठयामुभयतो धरत्न्यन्तरे प्रक्षालिते प्राची उभयतः शालामावृत्य वर्षीयो दक्षिणमिति । मानवसूत्रेऽन्यो विशेषः-बहिर्वेदि चक्राण्यन्तर्वेधुपस्तम्भयतीति । औत्तरवेदिग्रहणं बौधायनकात्यायनोक्तशालामुखीयनिरासार्थम् ।

देवश्रुताविति पदतृतीयस्यैकदेशेन पत्नी दक्षिणस्य हविर्धानस्य दक्षिणामक्षधुरं दक्षिणेनोत्तानेन त्रिः पराचीनमुपानक्त्येवमुत्तरस्य ।

गृहे स्थापितस्य पदपांसुतृतीयभागस्यैकदेशेन द्विधाविभक्तस्यैकांशेन हविःसोमा- ख्यं धीयते स्थाप्यते यस्मिस्तद्धविर्धानं, तच्च दक्षिणं दक्षिणदिसंबन्धीदमितिसंज्ञा चिद्वितम् । एतादृशस्य हविर्धानस्य चक्र निष्काश्य दक्षिणामक्षधुरं दक्षिणेन हस्तेनो- त्तानेन त्रिः पराचीनमधःप्रदेशमारभ्योपरिष्टात्प्रदेशान्तं त्रिवारमुप समीप उपविश्या- नक्ति । अञ्जनानन्तरं तस्य तच्च योजयति । एवमेवोत्तरस्य हविर्धानस्य कृत्वा चक्र योजयति । द्रव्यपृथक्त्वान्मन्त्रावृत्तिः । वशीत्यन्तो मन्त्रः । पत्नीग्रहणमध्वर्युव्याय- त्यर्थम् । दक्षिणग्रहणमुपकल्पनसमय एवेदं दक्षिणमिदमुत्तरमितिचिह्नकरणार्थ, पृष्ठ्याया दक्षिणत एकमुत्तरत एकमित्येवं विशिष्टं स्थापनं ज्ञापयितुं च नतु पृष्ठयाया दक्षिणत एवोत्तरत एव वा । दक्षिणतः स्थापित दक्षिणमुत्तरतः स्थापितमुत्तरमित्येवमु- च्यमान उदक्संस्थत्वेनैव सिद्धेदक्षिणोत्तरशब्दोपादानवैयर्थ्यापत्तेः । हविर्भानग्रहणं शकटस्य प्रयोजनं प्रदर्शयितुम् । दक्षिणामित्यक्षधुरो विशेषणमुत्तराक्षावृत्त्यर्थम् । पाक्पूरब्धूःपयामानक्ष इति भकारः समासान्तो न भवति अनस इति पर्युदासात्, एतस्या अक्षसंबन्धित्वात् । अक्षश्चक्रयोमध्यतन तिर्यकाष्ठं तस्मिन्यत्र चक्रं प्रोत भवति स प्रदेशोऽक्षरित्युच्यते । दक्षिणेनेति हस्तविशेषणं वामन्यावृत्त्यर्थम् । अथवा दक्षिणेनेति नियमार्थ दक्षिणेनोपानक्ति नतु वामेनापीति । दक्षिणेनेत्यस्यानुक्तावा. लिनाऽपि उपाञ्जनं कदाचित्संभाव्येत तद्वारयितुं दक्षिणवचनम् । उत्तानग्रहणं न्यक्त्व- व्यावृत्त्यर्थम् । अञ्जनसाधनत्वस्य हस्त एवं प्रसिद्धत्वाद्योग्यत्वाच्च विशेष्यभूतहस्तश- ब्दस्यानुक्तिः । प्राचेति बौधायनो हस्ते विशेषमाह । यत्रैकस्मिन्द्रव्य इति सूत्रात्स- कृदेव मन्त्रः । हविर्धाने प्रतिगमने क्रमनियम उक्तो बौधायनेन-अन्वरपनमानोऽनूची पत्नी पदतृतीयमादायेति ।

सर्वा उपानक्तीत्येकेषाम् ।

सर्वा अक्षधुरो नतु पत्नीपरः सर्वशब्दो बहुत्वस्यानियतत्वात् । परार्थान्येकेन क्रिये- रनितिपुत्रविरोधाच । तेन मुख्यैवानक्ति । अक्षसंस्कारकं हीदमुपाञ्जनम् । मुख्यत्वं १ क. 'शेष्यीभू।