सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रने- वेदिवहिषा स्तीयतेऽनयेति स्तरणी करणे ल्युट्, युवोरनाकावित्यनादेशः । टित्वा- बडीम् । स्तरणीति स्त्रीलिङ्गनिर्देश एतस्य मन्त्रस्यकत्वात् । स्तरणार्थयमृग्भवतीत्यर्थः । इति ओकोपाहश्रीमदमिष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्व- तोमुखयाजिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनून गोपीनाथदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्य- केशिमूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसं- तापशामिकायां ज्योत्स्नाख्यायां वृत्तौ सप्तम- प्रश्नस्य चतुर्थः पटलः ॥ ४॥

7.5 अथ सप्तमप्रश्ने पञ्चमः पटलः ।

उपक्लृप्ते शकटे मण्डलचक्रे प्रयुक्तपूर्वे तयोः पुराणान्ग्रन्थीन्विस्रस्य प्रक्षाल्य नवान्कुर्वन्ति च्छदिष्मती युग्यकृते कृत्वाऽग्रेण प्राग्वꣳशमवस्थाप्य युञ्जते मन इत्यौत्तरवेदिके जुहोति ।

उपक्लो इति भूतनिर्देशावग्नीषोमीयदिवससंबन्धिकर्मानुष्ठानारम्भात्यागेवोपकल्प- नीये । द्विवचनात शकटे अनसी मण्डलाकारे चक्रे ययोस्ते पूर्वमेवान्यकार्येषु प्रयुक्त प्रयुक्तपूर्वे तयोः शकटयोः पुराणान्पुरातनापूर्वकृतान्प्रधीन्विस्त्रस्य प्रक्षाल्य हविर्धाने प्रक्षाल्य नवान्नूतनान्दााय ग्रन्थीन्कुर्वन्ति । पारेकर्मिण इति शेषः । छरिष्मती कट. वती युग्यकृते युग्ये च ते कृते च युग्यकृते । इदं च शकटविशेषणम् । युग्ये युगाहे खलयवमापतिलवृषब्रह्मणश्चेतिसूत्रस्थानुक्तसमुच्चयार्थकचकारेण संगृहीतायुगशब्दात्तदई- तात्यस्मिन्नर्थे यत्प्रत्ययः । कृते नुतनाक्षादियोजनेन कृते कार्यसमर्थे । एतादृशे शकटे कृत्वाऽग्रेण प्राग्वनं प्राग्वंशस्य समीप एवं प्रागोषे एव दक्षिणे दक्षिणमुत्तर उत्तरमि - त्येवमव्यवायेनावस्थाप्य युञ्जते मन इत्योत्तरवेदिके जुहोति । परिष्यतिरित्यन्तो मन्त्रः । जुहोतिचोदितत्वात्स्वाहाकारः । उपक्लुते शकटे इत्येतावतैव चक्रयोः शकटाङ्गत्वात्प्र. सिद्धत्वाच्च मण्डलचक्रत्वे सिद्ध इदं वचनं चक्रयोः केवलमण्डलाकारत्वं न विधीयते किंतु रविमण्डलं यथा छिद्ररहितं तद्वन्मण्डलाकारचक्रे इत्यर्थविशेष प्रदर्शयितुम् । तेन च्छिद्रपदार्थोपलक्षितान्तरालवत्सारचक्रव्यावृत्तिर्भवति । प्रयुक्तपूर्वे इत्यनेन पुरातने प्रयाणगृहकार्यार्थनिर्मित एव ग्राह्ये इति सूचितं भवति । असंभवे नूतने एव ग्रा । प्रयुक्तपूर्वत्वे विशेषमाह-तयोः पुराणान्ग्रन्थीन्विस्त्रस्येति । प्रक्षाल्य नवान्कुर्वन्तीति पुरातननूतनसाधारण: नवत्वं प्रकृतकार्यक्षमत्व लक्षयति । कृत्वेति वचनमध्वर्युकर्तृकत्वा. थैम् । अत एव क्त्वाप्रत्ययस्य समानकर्तृकत्वमप्युपपद्यते । अव्यवायेनावस्थापनमाप.