सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ च०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । वेणुवत् । केचित्स्वतन्त्र प्रमाणमाहुः । तन्मते युगं पडशीत्यगुलात्मकम् । षडशीति- युगमाहुरिति शुल्बसूत्रात् । अत्र यजमानग्रहणमध्वर्युव्यावृत्त्यर्थम् । शम्पया परिमाण- मदृष्टार्थ पूर्वार्धे वेदेपावटापावकाशमवशिष्य शम्ययोचरवेदि विमिमीते पुरस्तादुदी. चीनकुम्बा शम्यां निधाय वित्तायनी मेऽसोत्यादि । उत्तवेदिकरणे पक्षान्तरमाह-

अꣳहीयसीं पुरस्तादित्येकेषाम् ।

अंहोयसी, अणायसी । शुल्बसूत्रे-विमितायां पुरस्तात्पार्धमान्यावुपसंहरेच्छ्रुतिसामर्थ्या- दिति । उपसंहारो हासः । अर्थात्पूर्वत्र यावतः प्रमाणस्य हासस्तावता प्रमाणेन पश्चा- स्पार्श्वमान्यौ वर्धयेदिति सिध्यति । यथा महावेद्याः श्रोणिमान त्रिंशत्पदात्मक त्रिंश- उपक्रमात्मक वा तत्पञ्चमांशः षट्पदात्मकः षट्पकमात्यको वा तस्य हामः पुरस्तात् । प्रश्चानु त्रिंशत्पदात्मकं त्रिंशत्प्रक्रमात्मकं वा तन्यायेनात्र । तेन पूर्वत्राष्टापदा द्वादश- पदा पश्चात्पूर्वत्राहीयतीत्यस्मिन्पक्षे भवति ।

उत्तरेणोत्तरं वेद्यꣳसं प्रक्रमे चात्वालः पश्चाद्द्वादशसूत्करो विद्यतेऽपरिमिते वा ।

चात्वाल इति भाविनी संज्ञा संस्कारनिमित्ता । उत्तरेणत्येनपोत्तरवेद्यतस्योत्तरतः संलग्नमेकं प्रकममानपक्ष एक प्रक्रम पदमानपक्ष एकं पदं मीत्वा तत्र चात्वालस्य दक्षिणांस दक्षिणरेखामध्यं वा परिकल्प्य तदनुरोधेनोत्तरतः शम्यामात्रं चात्वालं चतुरनं परिकल्पयेत् । शम्यामात्रश्चात्वाल इति बौधायनः । शम्याशब्देन पत्रिंशद- १लात्मक मानमेव गृह्यते नतु शम्याकारोऽपि । तदाकारस्यर्जुत्वामावेन रेखालेखना- ननुकूलत्वात्, उत्तरवेद्याः कल्पेनोत्तरवाद करोतीति विधानेनैव तदन्तर्गतत्वात्तत्साधन- स्वाच्च । उत्तरेणोत्तरं वेद्यसं प्रक्रमे चात्वाल इत्यस्यापि परिलेखनादिक्रियाया इव सिद्धावत्र पुनर्वचनं शम्यया मानार्थम् । उत्तरं वेद्यसमित्यत्र वेदिमहावेदिरेव नतूत्तर- वेदिः । अन्यथा चात्वालस्य महावेदिमध्ये समावेशापत्तेः । ननूत्करस्थानप्रदर्शनायाय- मनुवाद इति चेन्न । चात्वालाद्वादशसूत्कर इत्येतावतैव तदर्थसिद्धावनुवादवैयपित्तेः । चात्वालपश्चिमान्तान्मध्याद्वा द्वादश प्रकमान्प्रक्रम्य तत्रोत्करप्रान्तं तन्मध्यं वा कुर्यात् । उत्करः पदद्वयात्मकः । द्विपद उत्कर इति सूत्रान्तरात् । विद्यत इत्यस्य भवतीत्यर्थः । अपरिमिरी वेत्यनेनाधिकमप्यनियतं प्रमाणं ग्राह्यमिति बोध्यते । अपरिमितशब्दार्थः कात्यायनेनोक्तः अपरिमितं प्रमाणादूय इति । भूयः, अधिकम् । पदमानपक्षे चास्वालमध्यादेव द्वादश पदानि मीत्वा तत्रोत्करमध्य एवं कार्यः । पदमानपक्षे चावालपश्चिमान्ताद्वादश पदानि न संभवन्ति । आग्नीधीयमण्डपनिवेशानुपपत्तेः ।