पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रश्न- स्याननुछेयत्वोक्तेस्तत्स्थान आयसीमेव पशु शिष्टा गृह्णन्ति । आयस्यां पर्धामपि मन्त्रे पशुशब्दप्रयोगो न विरुध्यते । परशुरायसमय इति लोके प्रसिद्धमेव । चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये तस्याः सुपर्णावधि यौ निविष्टौ तयोर्देवा- नामधिमागधेयमित्यभिमन्त्रणमध्वर्युणा कार्यम् । तथा चाऽऽपस्तम्बः-दर्शपूर्णमासव. संनमनवर्ज प्रागुत्तरात्परिग्राहात्कृत्वा चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये तस्या सुपर्णावधि यौ निविष्टौ तयोर्देवानामधिमागधेयमित्यभिमन्व्येति । वेदि करोतीति विपरिणामेन संबन्ध इत्यापस्तम्बसूत्रसंगतिः । अनुवृत्तेन वेदिशब्दे- नोत्तरदिरेव ग्राह्या नतु महावेदिः । अन्यथाऽभिमन्यवेदि करोतीतिल्यप्प्रत्ययबोधि. तसमानकर्तृकत्वानुपपत्तेः । नच स्फ्येन विघनेन पर्धा परशुना च वेदि कुर्वन्तीति पूर्व- सूत्रेणान्वयः, तथा च वेदिशब्देन महावेदेव ग्रहणमस्त्विति वाच्यम् । अभिमन्त्रणस्य समानकर्तृकत्वानुरोधेनाध्वर्युव्यतिरिक्तकर्तृकत्वापत्तेः । नचेष्टापत्तिः । मुख्यकर्तृकत्वनि- वाहोपपत्तौ गौणवहिर्भूतकर्तृकत्वकल्पनाया अनुचितत्वात् । अत एवोत्तरसूत्र उदुम्बर- शाखाभिः प्लाशाखाभिर्वा छन्नां परिवासयतीत्युत्तरवेदिप्रयुक्तोऽयं विधिः संगच्छत इत्यस्त्वापस्तम्बसूत्रविचारः । स्पयन विघनेनेति सूत्रं प्राकृतवेदिकरणशेषमूतमेव । यन्मूलमतिशेते स्फ्येन तच्छिनत्ति स्फ्येनोत्तमा त्वचमुद्धत्योत्करे निवपतीत्यादिविधितः स्फ्यस्यैव करणत्वं प्राप्तं तस्यात्र वेदेमहत्त्वेनायोग्यत्वाद्विधनादीन्यपि तत्तत्कार्यसाध- नत्वेन विधीयन्ते । स्फ्यग्रहणं लौकिकस्फ्यग्रहणार्थम् । परिकर्मिकर्तृकवेदिकरणेऽयं स्फ्यः प्राकृतकर्मम त्वैष्टिक एव । चकारः प्राकृतवेदिकरणसमुच्चयार्थः । तेन प्राकृतं खननान्तं कृत्वेदं वैशेषिकं करोति । नचानुक्तसमुच्चयार्थत्वं चकारस्यास्त्विति वाच्यम् । स्फ्यः स्वस्तिरिति वक्ष्यमाण उपस्थानमन्त्रे चतुर्णामेवोपस्थानविधानेन चतुरतिरिक्तस्यासं- मवात्।

यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वोत्तरवेद्याः कल्पेन दशपदामुत्तरवेदिं करोति ।

यदित्यनुवादश्चोदकप्राप्तस्योत्तरवेदिकरणकालविधानार्थः । देवस्य सवितुः सव इति खनति शकुलां व्यङ्गुला चतुरङ्गुला सीतामात्रीमित्यादि उत्करं तद्गमयतीत्यन्त. दर्शपूर्णमासवत् । आहार्यपुरीषां पशुकामस्येति काम्यपक्षः प्रकृतावेव । काम्यानां प्रकृतावेव निवेश इत्यभियुक्तोक्तेः । उत्तरपरिमाहात्पूर्वतनं यत्कर्म तत्कृत्वोत्तरवेद्याः कल्पः प्रकारः पशसूत्र उक्तस्तेन प्रकारेणोत्तरवेदि करोति । अत्र ततोऽयं विशेषो दशपदामिति । एतद्विहरणप्रकारः शुल्बसूत्रे-दशपदोत्तरदिर्भवतीति सोमे विज्ञा- यते तदेकरज्ज्वोक्तं पञ्चदशिकेनवापायम्यार्धेन ततः श्रोण्यसान्निहरेत्तां युगेन यनमा- नस्य वा पदैविमाय शम्यया परिमिमीत इति । तत इति षष्ठयन्तात्तसिः । तस्या उत्तरवेदेरित्यर्थः । दशपदा सर्वतः क्षेत्रतो दशपदा । युगमपि दशपदायाममेव, मानं