पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुरोडाशभेदनपतनप्रायश्चित्तम्]
११३१
संस्काररत्नमाला ।
( अष्टकाश्राद्धप्रयोगः )
 

अथ पुरोडाशभेदन[१]पतनप्रायश्चित्तम् ।

"किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहाऽऽमहि ।
अघोरो यज्ञियो भूत्वाऽऽसीद सदन स्वमासीद सदन स्वम्" ॥

 इति तमन्तर्वेदि बर्हिषि निधाय--

"मा हि सीर्देवप्रेरित आज्येन तेजसाऽज्यस्व मा नः किंचन रीरिषः ।
योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषि"

 इति तमभिमन्त्रयतेऽभिधारयेद्वा । ततस्तं स्वस्थाने निधाय सर्वप्रायश्चित्तं जु[२]हुयात् । इति पुरोडाशभेदनप्रायश्चित्तम् ।

 ([३] कम्पनखण्डनसर्पणोद्वर्तनेष्वप्येतदेव प्रायश्चित्तम् । भेदनसर्पणयोरायुष्मतीष्टिः । वेपने सुरभिमतीतन्तुमत्यौ । उद्वर्तने सुरभिमत्येवेति बोधायनोक्तमपि शक्तौ सत्यां समुच्चेतव्यम् । गृह्ये तु इष्टिस्थाने तत्तद्दैवतश्चरुः कार्यः । प्रधानहोमोत्तरं हविष्पतनादौ प्रणवेन व्याहृतिभिश्च स्रुवेण जुहुयादिति प्रायश्चित्तग्रन्थे ।)

 पुरोडाशाधिश्रयणात्पूर्वं कपालाङ्गारनाशे मनस्वती सर्वप्रायश्चित्तं च । वेदविनाशे सर्वप्रायश्चित्तं हुत्वाऽन्यं कुर्यात् । इति प्रायश्चित्तानि ।

अथाष्टकाश्राद्धम् ।

तत्राष्टकास्वरूपं गृ[४]ह्य उक्तम्--

"अष्टकां व्याख्यास्यामो माध्याः पौर्णमास्या
योऽपरपक्षस्तस्याष्टमीमेकाष्टकेत्याचक्षते" इति ।

 अष्टका नाम नित्यः पितृकर्मसमुदायः । मघाभिः प्रायेण युक्ता भवति या पौर्णमासी सा माघी माघपौर्णमासीत्यर्थः । तस्या योऽपरपक्षस्तस्याष्टमीमेकाष्टकेत्याचक्षतेऽभियुक्ता इत्यर्थः । एका प्रधाना मुख्या, [ अष्टका, ] एकाष्टका । यथैकपुरुष इति प्रधानपुरुष उच्यते । किमपेक्षं प्राधान्यम् । हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणां याश्चतस्रोऽष्टम्यस्ताः सर्वा अष्टकास्ता अपेक्ष्य । किमर्थमेतद्वचनम् । तस्याः पूर्वेद्युरुत्तरेद्युश्च कर्मविधानार्थम् । यद्येवं, तस्य सप्तम्यामनूराधैरित्येव वक्तव्यम् । एवं तर्हि कालसंयोगादष्टकाशब्दः कर्मणीदं चाष्टकादीनां प्राधान्यमितिज्ञापनार्थम् । किमेतस्य ज्ञापने प्रयोजनं समाख्यासामर्थ्यात्सर्वासामष्टकानामिच्छातः क्रिया स्यात् । अस्यास्तु प्राधान्यान्नियततेति । एकाष्टकायां दीक्षेरन् । एकाष्टकायां क्रयः संपद्यत इत्यत्राप्यस्याः संप्रत्ययश्च ।


  1. ङ. नप्रा ।
  2. ङ. कुर्यात् ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  4. क. गृह्ये--अ ।